SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ 594 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः शास्त्रोपलम्भविरोधान्न कल्प्यः । 'भुव एव वायुवददृष्टवशात्तादृशभ्रमणोपपत्तेः। स्यादेवम्। किनच्छिन्नम्? इति चेन्न; *उपलम्भानुसारस्य छिन्नत्वात् । अत एवानन्तताराग्रहभ्रमणकल्पनादेक आनन्ददायिनी करुप्यतां किं तादृशवायुनेत्याह---भुव एवेति । किं नश्छिन्नमितिभूभ्रमणस्याभीष्टस्य सिद्धत्वादिति भावः । उपलम्भेति-- भुवः स्थर्यस्योपलम्भादित्यर्थः । अत एवेति-उपलम्भविरोधादेवेत्यर्थः । ननु तर्हि भचक्र भावप्रकाशः भावः । स्वत एव भ्रमतीति द्वितीयपक्षमुत्थापयति- *भुव एवेत्यादि। तद्दषयति-2* उपलम्भानुसारस्येति । भूमेबहिः प्रबलवायुविशेषकल्पनेन पूवोक्तदूषणपरिहाराङ्गीकारे उपलम्भस्वारस्यं छिन्नमेवेति भावः । अयमाशयः-सग्रहभपञ्जरभ्रमणं प्रत्यक्षतस्सिद्धम् । भूगोलभ्रमणं तु न प्रत्यक्षम् । अपि तु काल्पनिकमेव । तत्र दूषणप्रसक्तौ भूगोलस्थपृथिवीभागस्य वायुमन्तरा भ्रमणम्य प्रत्यक्षतम्सिद्धत्वेऽपि भोगोलस्य स्वभाव. विशेषाद्भमणामत्यपरा कल्पना। पक्ष्यादीनां नोदनहेतुवायुविशेषप्राबल्यकल्पनेन पूर्वोक्तदूषणपरिहारेऽपि तादृशप्राबल्यमनुपलब्धमिति तदपि कल्पनीयम् । किंच भुवः स्वभावविशेषाश्रमणकल्पकेन वायुविशेषमन्तरेण स्वभावविशेषेण पूर्वोक्तदूषणानां परिहारसंभवात् वायुविशेषो वा' कुतः परिकल्पयः? किंच स्वभावविशेषोक्तिः प्रत्यक्षसिद्ध एवार्थे प्रामाणिकानां न तु काल्पनिकेऽर्थे ; भुवस्तु अचलत्वमेव प्रत्यक्षसिद्धम् । तदेव स्वभावतः । यथोक्तं भास्करण-'मरुच्चलो भूरचला स्वभावतः' इति । अतस्सर्वस्यापि परिकल्पनया भुवः अचलत्वोपलम्भे भ्रान्तित्वकल्पन
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy