SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ सरः भूभ्रमणपक्षानुवादः 587 तत्वमुक्ताकलापः तथा मेदिनीभ्रान्तिपातौ। सर्वार्थसिद्धिः तत्वमतिदिशति-तथेति । इषीकामोतपत्रिकादिवत् स्वदेशं भावप्रकाशः द्वौद्वौ रवीन्दू द्विगुणां भसस्थां चतुर्विधस्तम्भनिभं च मेरुम् ।। इति । 1* तथेति-भ्रान्तैः क्लप्तावित्यर्थः । तदुक्तं गोलदीपिकायां परमेश्वरेण पूर्वाभिमुखं भ्रमति क्षोणी नास्ति भ्रमः खगाणाम् । इति किल वदन्ति केचित् नाभिमतं तदपि चार्यभट्टस्य ॥ इति। 'अनुलोमगतिर्नोस्थः' इति कारिका चेत्थं विवृता तेनैव भट्टदीपिकायाम् – 'भूमेः प्राग्गमनं नक्षत्राणां गत्यभावं च केचिदिच्छन्ति ; तन्मिथ्याज्ञानवशादित्याह-अनुलोमगतिरित्यादि । यथा नौयानं कुर्वन् पुरुषः अनुलोमगतिः-स्वाभिमतां पश्चिमां दिशं गच्छन् । अचलम्-नद्या उभयपार्श्वगतमचलं वृक्षपर्वतादि वस्तु विलोमगंप्राची दिशं गच्छदिव पश्यति ; तथा भानि नक्षत्राणि लङ्कायां समपाश्चमगानि कर्तृभूतानि अचलानि-भूमिगतान्यचलवस्तूनि कर्मभूतानि विलोमगानीव-प्राची दिशं गच्छन्तीव पश्यन्ति । लङ्कादिविषुवद्देशेष्वेव नक्षत्रपञ्जरस्य समपश्चिमगत्वम् । एवं ताराणां मिथ्याज्ञानवशादुत्पन्नां प्रत्यग्गमनप्रतीतिमङ्गीकृत्य भूमेः प्राग्गतिरभिधीयते; परमार्थतस्तु स्थिरैव भूमिरित्यर्थः' इति ॥ सूर्यदेवयज्वाऽपि 'भचक्रपरिवर्तानां भूमावध्यस्योपदेशकारणमाहअनुलोमगतिरिति' इत्यवतार्य परमेश्वरवदेव व्याख्याय ; ‘एवं भचक्रस्यैव प्रत्यग्गमनं भूमेः प्राग्गतित्वेनाध्यस्यति न तु परमार्थतो भूमे
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy