SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ 576 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः आरोपे चात्र नैल्यं न भवति नियतं भास्वरान्यत्व सर्वार्थसिद्धिः वधारणतात्पर्यभेदसिद्धं दूषणान्तरमाह-आरोपे चेति । अयं भावः-आरोप एवात्र न संभवति ; अभावस्य हि स्वरूपमेव हि भेदं मन्यसे । ततस्तद्हे वा कथमारोपः ? एवं च ब्रषे! आलोको हि भास्वरः! तद्विरोधी च तदभावः । कृष्णद्रव्यमपि भास्वरान्यत्वात्तथैव । अत आलोकविरोधित्वसाधात अकृष्णे कृष्णधर्माध्यास इति । एवं सति रक्तपीतादीनामपि तथात्वाविशेषात् तत्र तदारोपः किं न स्यादिति । अत्र यदुक्तं काणादैः'आरोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोपः। इति । तदयुक्तम्-आरोपे सतीत्यासिद्धेः। निमित्तस्य चाति आनन्ददायिनी । प्रभादौ व्यभिचारादि(रस्स्यादि)ति भावः । अनुद्भूतस्पर्शवत्त्वकल्पने तमंस्यपि तद्बाधकाभावात् । ननु भास्वरान्यत्वरूपसादृश्यस्य नीलद्रव्याभावसाधारण्येनारोपहेतुत्वात् कथं नियतारोपाभाव इत्यत्राह--अयं भाव इति । अत्र मूलस्य-आरोपे च~आरोपपक्षे च अभावे नीलारोपो नियतं-नित्यं न भवत्येव-आरोप एव न सम्भवतीत्येकोऽर्थः । नियतंनियमेन नीलरूपस्यैवारोपो न रक्तरूपस्येति नियमो न सम्भवतीति द्वितीयः । तदुभयमाह-आरोप एवात्रेत्यादिना । कथमारोप इति-- अभावस्य ग्रहे तस्यैव विशेषदर्शनत्वात् तदग्रहे धर्मिज्ञानाभावान्नारोप इति भावः । आरोपनियमे तदुक्तं नियामकमाशङ्कते-अत्र यदुक्तमिति। तथाच न रक्ताद्यारोप इति भावः । निमित्तस्य चेति--- एकत्रारोपे सति
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy