SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ सरः]सजातीयधर्मधर्मभावनिदर्शनभाष्यस्थत प्रतिकूल्यम् , तात्पर्यस्याभ्युद्यताच 569 सर्वार्थसिद्धिः वाक्ये च नोभयत्यागः। सहजक्षणिकपुञ्जद्वयपक्षम्य क्षणभङ्गनिरासनैव निरस्तत्वाच्च । अतोऽन्यतरवाक्यम्य अन्यपरत्वे प्राप्ते प्रमाणतर्कानुगुणं परमार्थतात्पर्य प्रज्ञाशालिभिश्छात्रः प्रतिबोद्धव्यमिति ॥५७॥ प्रभाविषयग्रन्थद्वयगमनिका. ननु दीपादीनां स्थिरतया गृहीतानामपि क्षिप्रविनाशित्वमभ्युपगतम् ; तच्च अवयवाविशरणपक्ष एवोपपद्यते। तथाऽऽहुः अवयवविशरणलिङ्गजबोधसहायेन चक्षुषा भेदम् । ज्वालेषु निर्णयामः . . . . . . ॥ आनन्ददायिनी घटादिन्यायेन तथा निर्वाहस्य मुख्यत्वात्तथोक्तमिति भावः। अत इतिविशीर्णपक्षस्य प्रत्यक्षादिप्रमाणविरोधात् बहुकल्पनागौरवप्रसङ्गात् क्षण(णिकवाद)भङ्गनिरासेन कंचित्कालमवस्थाने विरोधाभावेन बहुलीभावसम्भवात् दीपादीनामन्यस्य विनाशेऽपि तदवयवसम्बन्धेनौष्ण्यवदातपत्रादिवारितस्थलेऽप्यातपादिप्रभावयवसत्त्वस्य निरन्वयविनाशनिराकरणेनाविरोधाच्च धर्मिणः स्थिरत्वे प्रभाया अपि स्थिरत्व तन्निरोधे च हासः तदभावे विकासः अस्थिरदीपादौ च तत्समानकालीनप्रभागतिमत्त्वाङ्गीकाराच्च वारणादिकं च युज्यते इति पूर्वोक्त एव संमत इति तदनुरोधेन ग्रन्थो योजित इति भावः ।। ५७ ॥ प्रभाविषयग्रन्थद्वयगमनिका आक्षेपसङ्गतिमाह-नन्विति । अवयवेति--विशेषदर्शनसहित
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy