SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ 556 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जिडद्रव्य तत्वमुक्ताकलापः वायुतानुज्झनाच। तस्माद्वातो विशेष घनजलकर सर्वार्थसिद्धिः 'पृथिव्या ओषधय' इत्यादिषु तत्प्रसङ्गात् । प्राणे च वायुत्वं न निवृत्तम् । अतश्च न. तत्वान्तरमित्याह-वायुतानुज्झनाचेति। तथाऽपि देहोपादानत्वावस्थापनो वायुः प्राणस्स्यात् ; किमधिककल्पनयेत्यत्राह-तस्मादिति । अयं भावः-'यावद(य)स्मिन् शरीरे प्राणो वसति तावदायुः' अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः । प्राणापानसमायुक्तः पचामि . . . ॥' . इत्यादिषु देहात्पृथक्तेन प्राणवायुः प्रसिद्धः; अतो न देहोपादानवायुरसौ; किं तु योगाद्युपयुक्तशास्त्रवेद्यविशेषवान् कश्चिद्वायुरयमिति । वायुत्वानुवृत्तिव्यक्तयै जलमयकरकानिदर्शनम् । आनन्ददायिनी हेतुमाह-~-पृथिव्या ओषधय इति । यावद्विकाराणां परिगणनासम्भवात् परिगणननिमित्तं किञ्चित्प्रयोजकं वाच्यम् ; तच्च पूर्वतत्वपरिगणननिमित्तासाधारणधर्मनिवृत्तिपूर्वकरूपान्तरं परिगणननिमित्तमाश्रयणीयमिति प्राणे स्वोपादान(गत)वायुत्वापरित्यागान्न तत्वान्तरतेत्यर्थः । तथापीति–तावता प्राणे वायुत्वप्रतीतिसहप्रयोगयोरुपपत्तेरि(त्यर्थः) ति भावः । तस्मादित्यादिना देहोपादानावस्थाविशिष्टाद्भेदाप्रतिपत्तेराह-अयं भाव इति । किन्त्विति-कुण्डल्यादियोगाद्युपयुक्तशास्त्रवेद्यवायुतिरोधिसाधन (वेद्यवायुनिरोधस्थान) विशेषवानित्यर्थः ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy