________________
सरः]
दिशस्तत्वपङ्क्तिपाठशङ्का प्रतिवन्द्या तत्परिहारश्च
537
तत्वमुक्ताकलापः गमयति न च तच्छ्रौत्रतामान्यपर्यात् ।। ५० ॥
सर्वार्थसिद्धिः रिव सृष्टिस्स्यात् । अतस्तत्वान्तरकल्पनं निर्मूलमित्यर्थः ॥ ५० ॥
दिश आकाशादावन्तर्भावः
आनन्ददायिनी तथा सूत्रकारानिरस्तत्वाच्च तत्त्वान्तरमिति शङ्कामुपसंहारव्याजेन निराकरोति-अत इति । अयं भावः-- न तावत्प्रमेयसंग्रहानुरोधात्तत्वान्तरत्वं पञ्चीकृतभूतारब्धत्वप्रतीत्या महदादिवत्तत्वान्तरत्वायोगात् । नापि वरदविष्णुमिश्रवाक्यबलात्तत्वान्तरत्वम् ; भाष्यविरुद्धसत्वादिद्रव्यपार - गणनवत् तत्वान्तरत्वसाधकत्वाभावेन अन्यपरतया नेतव्यत्वात् , नापि सूत्रकारानिरस्तत्वात्तत्वान्तरम् ; 'न वायुक्रिये पृथगुपदेशात्। इत्यधिकरणे पृथक् सृष्टयाधुपदेशवतोऽपि प्राणस्य वाय्वन्तर्भावोक्तेः । तन्नयायस्य दिगादावपि समत्वेन पृथग्दर्शनार्थत्वादिति । नैतावतत्वभेदं गमयतीति मूलस्य एतावत्तत्वभेदं गमयतीति वाक्येन किमुच्यते ? इत्युक्ते अप्ययो वेति वाक्यभेदेन योजना । 'क्षुदुपहन्तुं शक्यमिति पस्पशाभाष्यदर्शनान्न क्लीबतानुपपत्तिरिति । यद्वा-एतावयस्तत्वेभ्यो भेदं न गमयतीत्यर्थः ॥५०॥
दिश आकाशादावन्तर्भाव.