SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ 524 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः नित्यत्वाद्यम्बरादेर्यदि निरवयवद्रव्यताद्यैः प्रसाध्यं सर्वार्थसिद्धिः सोऽयमाकाशः सर्वव्यापी नित्यश्चेति वैशेषिकादयः । जैनास्तु तत्र लोकाकाशः अलोकाकाशश्चेति विभागमप्याहुः। मूलप्रकृतिविम्वीति साङ्ख्याः। मनो विम्विति भाट्टाः । तेषां पक्षं सहेतुकमनुभाषते-नित्यत्वादीति । नित्यत्वं व्यापित्वं च पृथक्साध्यम् । प्रत्येकं तयोरेते हेतवः; विगीतं नित्यं विभु च निरवयवत्वे सति महत्त्वात आनन्ददायिनी प्रसङ्गसंगतिमाह--सोऽयमिति । पङ्कलिप्तं तृणं यद्वज्जले मग्नं तदत्यये । ऊर्ध्वमुद्गच्छति तथा जन्तुः कर्मात्यये पुनः ।। ऊर्ध्वमाक्रमतेऽजसं लोकाकाशं विहाय सः । सततोर्ध्वगतिमुक्तिरलोकाकाश ईरिता ॥ .. व्यापि नित्यं द्विधाऽऽकाशमेकमेव विभज्यते । इ.युक्तपक्षमाह--जैनास्त्विति । लोका काश:-जन्तुसंचारविशिष्टाकाशः। तद्रहिताकाशः-अलोकाकाशः । मूलप्रकृतिरिति । उत्तरावधिराहित्यमाहुरित्यर्थः । आदिशब्दार्थमाह---व्यापित्वं चेति । आदिशब्देन हेतुविशेषणानि हेत्वन्तराणि च विवक्षितानीत्याह-एत हेतव इत्यादिना। निरवयवत्व इति तावत्युक्ते गुणे व्यभिचारः, अतो महत्त्वादिति । तावताऽपि घटे व्यभिचारः, अत उक्तं-निरवयवेति । ननु महत्त्वं
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy