SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ 504 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः शब्दस्याधारभूतं कथमपि गगनं शक्यते नानुसर्वार्थसिद्धिः अथाकाशस्यनुमानतस्सिद्धिं निराकरोति — शब्दस्येति । शब्दः क्वचिदाश्रितः गुणत्वादित्येतावता तावन्न पृथिव्याद्यतिरिक्तशब्दाश्रयसिद्धिः; सर्वस्य किञ्चिद्भावात् । परिशेषहेतूनां तु | विपक्षे बाधकाभावात् । न हि शब्दस्य पृथिव्याद्याश्रितत्वे किञ्चिदनिष्टं स्यात् । पुष्पादिगन्ध इतिवत् भेर्यादिशब्द इति सर्वलोकबुद्धयनुविधाने कल्पना च लघ्वी । शब्दो विभुगुणो न भवति बाह्येन्द्रियग्राह्यगुणत्वादिति विपरीत परिशेषस्यापि सुशकत्वात् । स्पर्शो न पृथिव्यादिधर्मः नीरूपेन्द्रियग्राह्यत्वादित्या आनन्ददायिनी प्रासङ्गिकीं सङ्गतिमाह-आकाशस्येति । सर्वस्य किंञ्चिद्भावादिति । शब्दः क्वचिदाश्रित इत्यत्र किंशब्दार्थत्वादित्यर्थः । परिशेषेति । शब्दः पृथिव्याद्याश्रितो न भवति श्रोत्रग्राह्यगुणत्वात् इत्यादिपरिशेषाणामित्यर्थः । विपक्षे बाधकाभावमेवाह न हीति । पृथिव्याद्यनाश्रितत्वसाधने सर्वलोकप्रतीतिमप्याह----पुष्पादीति । तथाच लोकप्रतीतिबाधकल्पनाभावाल्लाघवं चेत्यर्थः । परिशेषानुमाने प्रतिपक्षमप्याह — शब्द इति । ज्ञाने व्यभिचारवारणाय बाह्येति, गुणत्वादिति जातौ व्यभिचारवारणायेति प्रयोजनं द्रष्टव्यम् । आभासयोगक्षेमतामप्याह - स्पर्श इति । रूपादौ व्यभिचारवारणाय नीरूपेति । नीरूप ( परामर्श) शब्दात्मादिग्राह्य तया व्यभिचारवारणायेन्द्रियेति । ननु मनसा आत्मनिष्ठसता (द्रव्यत्वादि)
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy