SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ सरः नभानल्यस्य चाक्षुत्व नल्यारापाादवादानरासश्च +90 तत्वमुक्ताकलापः स्मदादेः सर्वार्थसिद्धिः अनुमिते नभास नैल्यारोप इति निरस्तम् । नच नीलं नभ इति धीरेव नास्ति ! विश्वविसंवादात् । नाप्यसावचाक्षुषः ; अस्मदादिचक्षुयापारानुविधानात् । नभसि विततानां पार्थिवावयवानां कृष्णगुणमात्रं चक्षुषा गृह्यते इति चेन्न; नीलं नभ इति धर्मिपर्यन्तबुद्धेः । गुणिलिङ्गत्वाचात्र नीलादिशब्दानाम् । एतेन नीलरूपस्मृतिप्रमोपोयमिति पक्षोऽपि निरस्तः। (ननु) नभसि स्वतो नैल्याभावात् पञ्चीकृतेऽप्यस्मिन् नैल्यस्य पार्थिवांशमात्रनिष्ठत्वात् तस्मिन्नेवांशे स्यादसौ चाक्षुषधीः ? मैवम् तस्य नभश्शब्दार्थत्वायोगात् । नीलपटन्यायस्य चात्र ग्राह्यत्वात् । बालातपसंनिधौ आनन्ददायिनी गुणमात्रविषयत्वे तदधीनव्यवहारस्यापि तन्मात्रविषयत्वान्नीलशब्दस्य नैल्यमात्रविषयस्य नलिं नभ इति क्लीबता न स्यादित्याह-गुणिलिङ्गत्वाचेति । एतेनेति-धर्मिपर्यन्तधी(न्तत्व) दर्शनात् गुणिलिङ्गत्वाच्च नीलादिशब्दानामित्यनेनेत्यर्थः । स्मृतिप्रमोषः-तत्तानवगाहिस्मृतिः । ननु तर्हि स्वतोऽपि नीलरूपस्य विरहात् कथं नीलं नभ इति प्रतीतिस्स्यात् इत्यत्राह-नीलपटन्यायस्येति । स्वतोऽभावेऽपि पार्थिवसम्बन्धातथा धीरित्यर्थः । ननु रूपशून्यस्य कथमन्यरूपसम्बन्धेनाऽप चाक्षुष रूपारोपाधिष्ठानत्वमतिप्रसङ्गादित्यत्राह-बालातपेति। आतिप्रसङ्गस्त्वनुभवबलाद्वार्य इति भावः । नन्वत्रान्य एव नभश्शब्दार्थ इत्यत्राह
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy