SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ सरः] वृत्तिद्वारा श्रोत्रव्याप्तिपक्षः स्वारसिकं पक्षान्तरं च तत्वमुक्ताकलापः भेदात् श्रोत्रायातस्य तस्य ग्रहं सर्वार्थसिद्धिः 491 प्रतिवातयोरतिदूरानतिदूरं च शब्दो गृह्यते । बहिरन्तगृहगतानां च दूरस्थशब्दग्रहणे स्फुटास्फुटधीश्व | अतः श्रोत्रप्रदेशायातभूतधर्मस्य शब्दस्य ग्रहणम् । तस्यचायातत्वमाश्रयद्वारकम् । 'शब्दगन्धसूर्यलोकरत्नप्रभादयो धर्म्यतिवर्तिनो गतिमन्तश्च' sa आत्मसिद्धिवाक्ये शब्दशब्दो गन्धशब्दवदाश्रयलक्षकः ॥ गुहासौधादिसंक्षोभः प्रतिशब्दश्च जृम्भते । निस्साणादिप्रणादेन तदेतत्पक्षसंगतम् ॥ आनन्ददायिनी शब्दो गृह्यते प्रतिवाते अनतिदूर एव गृह्यत इत्यर्थः । भूतधर्मस्येतिशब्दस्य द्रव्यत्वं येऽभ्युपगच्छन्ति तन्मतमसंगतामिति भावः । ननु तस्याद्रव्यत्वे कथमागमनमित्यत्राह -- तस्यचेति । सिद्धान्तविरोधं परिहरति—शब्दगन्धेति । गन्धस्य गुणत्वं सर्वसिद्धमिति भावः । शब्दशब्द इति – ननु गुणत्वे धर्म्यतिवर्तिन इति विरोध इति चेन्न धर्मिशब्देन समुदायस्याभिधानात् तदेकदेशरूपाश्रयद्वारा तदतिवर्तित्वं सम्भवतीति (समुदायरूपघर्म्यतिवर्तित्वस्य विवक्षितत्वादिति भावः । ननु आश्रयद्वारा शब्दस्य कर्ण (अन्य ) देशागमनं किमर्थं कल्प्यते ? तावब्यापी शब्द एव प्रथममुत्पद्यतामित्यत्राह गुहासौधादीति । शब्दस्य तावद्देशव्यापिन उत्पत्तौ गुहासौघप्राकारादीनाम (रादिष्व ) भिघातरूपसंक्षोभा (भाभावात् ) त् प्रतिशब्दो नोपपद्यते शब्दाश्रयद्रव्यस्यागमनपक्षे तु तीव्रतरशब्दाश्रयद्रव्याभिघातेन गुहादौ प्रतिशब्द ―――――
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy