SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ सरः इन्द्रियविभुत्वीनर मः चित्ताणुवस्यर्थ क्रमसद्धत्वोपपादनं च 40" तत्वमुक्ताकलापः निष्क्रमादिः ? चिनाणुत्वे तु सर्वेन्द्रिय समुदयने धीक्रमोऽप्यस्तु मानम् । सर्वार्थसिद्धिः मनसो लिङ्गम्' इति परोक्तं मनोविभुत्ववादप्रतिषेधोपयोगादनुमन्यते । चित्ताणुत्वे विति । अयं भावः-व्यासङ्गदशायां समग्रैरपि बाह्येन्द्रियैः युगपत् ज्ञानानि नोत्पद्यन्ते । दीर्घशष्कुलीभक्षणादिषु च व्यासङ्गदृष्टान्तेन धीक्रमोऽनुमेयः । क्रमभाविकारणान्तरसापेक्षो ह्यसौ! नचादृष्टभेदोऽपेक्ष्यः! तस्य दृष्टोपहारेण आनन्ददायिनी माण (त्वमेव त्वं अणुत्वे च बाधकाभावमात्रं न साधकमिति(त्यस्वरसः)सूच्यते । परोक्तमिति । इन्द्रियाणामनुमेयत्वं नास्तीत्युक्तमेव ; तथाऽप्यनुकूलत्वान्मनोनुमानं न दूषितमिति भावः । ननु (धी) क्रमासिद्धेः कथं तन्मानम् ? इत्यत्राह-अयं भाव इति । दीर्घतिदीर्घशष्कुलीरसगन्धरूपादिधियः क्रमवत्यः (एकदा)स्वस्वविषयसन्निहिततत्तादिन्द्रिय(यान्तर)कालोत्पत्तिकज्ञानत्वात् तादृशेन्द्रियकालिकव्यासङ्गदशोत्पन्नक्रमिकधीवदिति केचिदाहुः । अन्येतु (केचित्तु)उक्तधियो न युगपदुत्पत्तिमत्यः धीत्वात् इन्द्रियजन्य(धी)त्वाद्वा संमतवत् इति वदन्ति । परेतु रूपधीन रसकालसमुत्पन्ना सूपपीत्वात् संमतवदिति प्रत्येकमेवानुमानमित्याहुः । ननु च अदृष्टक्रमादेव धीक्रमोपपत्तौ न क्रमभाविकारणापेक्षत्यत्राह-न चादृष्टेति । दृष्टसंपत्तावदृष्टविलम्बेन कार्यविलम्बाभावात् ; अन्यथा सहकारिमात्रस्य दृष्टकारणमात्रस्य वा विलोपप्रसङ्गादिति 6253LLAV
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy