SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ 464 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः यदेतेष्विन्द्रियेषु मनसः कैश्विन्नित्यत्वमुक्तं तत् *इन्द्रियोत्पत्ति आनन्ददायिनी प्रसङ्गसंगतिं दर्शयति--यदेतेष्विति । इन्द्रियोत्पत्तीति-मनसोऽ. भावप्रकाशः भूतेन्द्रियाणां हेतुस्स त्रिगुणत्वान्महामुने ॥ १।२।३८ ॥ इत्युपक्रम्य भूततन्मात्रसर्गोऽयमहङ्कारात्तु तामसात् । तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश । एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ १।२१४८ ॥ इत्यन्तग्रन्थे भूतानां तामसाहङ्कारकार्यत्वस्य एकादशानामिन्द्रियाणां सात्विकाहङ्कारकार्यत्वस्याभिधानादेहादिन्द्रियाणां भेदस्सिद्ध इति भावः । अत्र 'देवा वैकारिका दश । एकादशं मनश्चात्र' इति पृथङ्मनसो वैकारिकत्वमभिधाय 'देवा वैकारिकास्स्मृताः' इति दशानामिन्द्रियाणां वैकारिकत्वोक्तिः ‘दशेमे पुरुषे प्राणा आत्मैकादशः' २५-९-४ इति बृहदारण्यकश्रुत्यनुसारेण तदर्थनिर्धारणाय । तेन तत्र आत्मशब्दो मनःपरः । यथोक्तं-'हस्तादयस्तु' इत्यादिसूत्रे शंकरभाष्येऽपि " उत्तरसंख्यानुरोधात्त्वेकादशैव ते प्राणाः स्युः । तथाचोदाहृता श्रुतिः'दशेमे पुरुषे प्राणाः आत्मैकादशः' इति । आत्मशब्देन चात्रान्तःकरणं परिगृह्यते करणाधिकारात्" इत्यारभ्य “सर्वार्थविषयं त्रैकाल्यवृत्ति मनस्त्वेकमनेकवृत्तिकम्" इत्यन्तम् । अत्रानन्दगिरिटीका-'बाह्येन्द्रियाणामित्थमनुमानेऽपि कथं मनसोऽनुमानं तत्राह-सर्वेति। इन्द्रियाणां वर्तमानतत्तदेकार्थनियतत्वादतीतादिसर्वार्थज्ञानाच्च तदर्थमिन्द्रियान्तरं कल्प्यमित्यर्थः' इति । एतेन अद्वैतपरिभाषाभूमिकायां गोविन्दसिंहोक्तिश्शंकरभाष्याद्यपरामर्शमूलेति सिद्धम् । * इन्द्रियोत्पत्तीति- अत्र राजा सर्वे पुरुषाश्च वर्तन्ते'
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy