________________
सरः चित्तस्यकरणत्वेमानाभावः अहङ्कारविषयकाकरनिर्वाहः एकेन्द्रियवादोपक्षेपश्च459
सर्वार्थसिद्धिः अहमर्थहेयत्वनिरासपरतयान्यार्थमन्वारुह्याप्युपपत्तेः । अनुग्राहकत्वमात्रेण परम्परया वा गर्वहेतुत्वोक्तेरविरोधादिति ॥ ३७॥
अन्तःकरणवैविध्यभङ्गः
नन्वेवं बाह्यकरणभेदोऽप्यपोहितुं शक्यः । मनोवदेकस्य वृत्तिभेदात् पृथक्कार्यव्यपदेशोपपत्तेः। आहुश्च बाह्येकदेशिनः'एकैकदेहेष्वकमेवोन्द्रियं ; प्रदेशभेदैस्तु रूपादिप्रकाशनशक्तिनियमः। षडायतनागमोऽपि तथैव व्यवस्थाप्यः स्वरूपभेदप्रयोजनाभावात् ।
आनन्ददायिनी अन्यार्थ-बुद्धिविशेषहेयत्वपरमित्यर्थः । तत्र हेतु:--अन्वारुह्येति । उपपत्तेरिति । अहमर्थात्म(त्व) समर्थनस्योपपत्तेरित्यर्थः । ननु अहङ्कारस्यानर्थहेतुबुद्धिविशेषहेतुत्वाभावे कथं तत्तयाज्यतापरत्वं वचनस्येत्यत्राहअनुग्राहकत्वेति । तथाच तावन्मात्रेण अञ्जनादिवत् न करणत्वं सिध्यतीति भावः ॥ ३७ ॥
अन्तःकरणवैविध्यभङ्गः
अक्षेपसंगतिमाह-नन्वेवमिति ।
ज्ञानेन्द्रियाणि पञ्चापि तथा कर्मेन्द्रियाणि च ।
मनो बुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः ॥ इति । बौद्धैः (बाह्यकरणानां) द्वादशानामङ्गीकारादेकदेशिन इत्युक्तिः । आगम इति
चक्षुः श्रोत्रं तथा प्राणं रसनं स्पर्शनं मनः ।