SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ 434 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे तत्वमुक्ताकलापः यदि करणतया स्यादसाधारणत्वम् । सर्वार्थसिद्धिः [जडद्रव्य वा; वहिरिन्द्रियव्यवस्थापकत्वादित्येव हेतुः । तथा श्रोत्रं भौतिकं बाह्येन्द्रियत्वात् चक्षुरादिवत् । आकाश इन्द्रियारम्भको भूतत्वात् भूतान्तरवत् इति । शब्दोपलब्धिर्वा भूतेन्द्रियकरणिका बाह्येन्द्रियव्यवस्थापकोपलब्धित्वात् रूपोपलब्धिवत् । तत्राद्येषु चतुर्ष्वनुमानेषु हेतुविकल्पम ( नूद्य ) भिप्रेत्य दूषयतियदि करणतयेत्यादिभिः। यस्मिन् सति कार्यं भवत्येव तत्करणम् । तच्च सन्निकर्षविशेषविशिष्टतयेन्द्रियाणाम् । ननु आनन्ददायिनी यानुमापकत्वं चेत् द्रव्यत्वादौ व्यभिचारः' इत्यपास्तम् । गुणत्वादिति शब्दत्वादौ व्यभिचारवारणाय । असिद्धिवारणाय साक्षात्कारविषयेति । सुखादौ व्यभिचारवारणाय बहिरिन्द्रियेति । द्रव्यत्वादौ व्यभिचारवारणाय इन्द्रियपञ्चकेति विशेषणमिति ध्येयम् । बहिरिन्द्रियव्यवस्थापकत्वादिति - पूर्ववदेवार्थः । शब्दत्वादौ साध्यसत्त्वात् न व्यभिचार इति गुणत्वस्यानुपादानम् । शब्दोपलब्धिरिति — उपलब्धित्वं शाब्दोपलब्धौ व्यभिचारीतीन्द्रियेति विशेषणम् । सुखाद्युपलब्धौ व्यभिचारवारणाय बाह्येति विशेषणम् । हेतुविकल्पमभिप्रेत्येति — अभिव्यञ्जकादित्यत्र हेतावाभिव्यञ्जकत्वं किं क (का)रणत्वं ? यद्वा क (का) रणसहकारित्वं ? अथवा बोधकत्वमात्रमिति विकल्पमभिप्रेत्येत्यर्थः । तच्चेति - इन्द्रिया णामेव तथात्वात् पक्षमात्रवृत्तित्वेन असाधारण्यमिति (त्यर्थः) भावः - -
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy