SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ 422 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः आये तदेव तत्सत्त्वं अन्यथा 1*नियमोऽपि न ॥ आनन्ददायिनी न्थानुवादादित्याहुः । तदेव-प्रमितत्वमेव । प्रमितत्वं-अबाधितमानविषयत्वम् । नियतत्वम् च नियमेन सत्त्वं । तथाच सत्त्वघटितं कारणत्वमिति सत्त्वशून्यमते कारणत्वं दुर्वचमित्यर्थः । तदुक्तमन्यदपि भावप्रकाशः तस्मादस्तीति संवित्तिर्जायमाना घटादिषु । तत्तत्पदार्थसंस्थानपारमार्थावबोधिनी !! सजातीयविजातीयव्यवच्छेदनिबन्धनैः । स्वैस्स्वैद्यवस्थितै रूपैः पदार्थानां तु या स्थितिः । सा सत्ता न स्वतन्त्रान्या तत्राद्वैतकथा कथम् ? ॥ इति । व्यावहारिकसत्यत्वान्मृषात्वेऽप्यविरुद्धता । प्रत्यक्षादेरिति मतं प्रागेव समदूदुषम् । सर्वज्ञत्वादिवचनप्रामाण्यं व्यावहारिकम् ॥ तात्विकं तु प्रमाणत्वमद्वैतवचसामिति । नियामकं न पश्यामो निर्बन्धात्तावकाहते ।। इति च । न्यायकुलिशे तृतीयपरिच्छेदेऽपि 'पारमार्थ्यं विनाऽर्थस्य न स्वरूपान्तरं भवेत् । ज्ञानस्य च स्वभावोऽयं यदर्थप्रवणात्मता ॥ एतत्किलोक्तं विश्वमपि दृश्यं जडरूपमेवेति; किमतः? न हि जडमिति अपरमार्थपर्यायं लौकिका मन्यन्ते' इत्युपक्रम्य जडप्रतीतेरबाधितविषयत्वं स्थापितम् । अत्राप्युत्तरत्र प्रपञ्चस्य श्रौतो यौक्तिकश्च बाधो न संभवतीति स्थापयिष्यते । अतोऽत्राविस्तर इति बोध्यम् । 1 * नियमोऽपि नेति-अपिना कारणमपि नेति बोधितम् ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy