SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ सरः] चार्वाकतर्केषु प्रागसत्त्वकोटिदूषणस्य विरुद्धभाषितत्वं 405 तत्वमुक्ताकलापः न स्वक्रियाविरोधात् ॥ ३२ ॥ सर्वार्थसिद्धिः भसंग्रहः । हेतुश्च साध्यं च हेतुसाध्यं; हेतुना साध्यं वा । ईदृशानां तर्काणां युक्ताङ्गहान्यादिकमभिप्रेत्याह — नेति । साधारणदुष्टत्वमाह – स्वक्रियादेरिति । इह तावदनिष्टकोटिभङ्गो न प्रत्याख्येयः । अन्यत्रैवमुत्तरगतिः - यदत्र पूर्वमसत्त्वे कार्यत्वं न स्यादिति ; तद्विरुद्धभाषितम् । प्रागसत्त्वविशेषितं सत्त्वमेव हि कार्यत्वं । तत्र च प्रागसत्त्वे प्रागसत्त्वमेव न स्यादिति वा तद्विशिष्टं न स्यादिति वा सत्त्वमात्रं न स्यादिति वा प्रसङ्गाआनन्ददायिनी (विकल्पे ) इति (त्यर्थः) भावः । कारणं किञ्चित्कारेण कार्य जनयति उत तद्द्द्विनेत्यादिविकल्प आदिशब्दार्थः । समाहारद्वन्द्व इत्याहहेतुश्चेति । ' तृतीया तत्कृतार्थेन ' ' कर्तृकरणे कृता' इति वा समास इत्याह — हेतुनेति । युक्ताङ्गं - प्रागसत्त्वं । अयुक्ताङ्गस्वीकार आदिशब्दार्थः । अयुक्ताङ्गं च प्राक्सत्वकारणसंयोगादिः । दुष्टत्वं दोषः । अनिष्टकोटीति – प्राक्सत्त्वकारणप्राप्तयादिरित्यर्थः । अन्यत्र प्रागसतो - प्राप्तस्योत्पादने । वक्ष्यमाणा उत्तरगतिः । उत्तर गतिमेवोपपादयति—यदत्रेत्यादिना । चार्वाकोऽपि घटपटादि नित्यतया तुच्छतया वा नाङ्गीकरोति । किं तु निर्हेतुकं । तत्र ( तथाच) प्रागसत्त्वमनुमतमेवेति स्वमतविरुद्धभाषणमित्यर्थः । प्रकारान्तरेणापि विरुद्धतामाह - प्रागसत्त्वविशेषितमित्यादिना । प्रागसत्त्वे कार्यत्वं न स्यादित्यत्र प्रस
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy