SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ 402 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे (जडद्रव्य तत्वमुक्ताकलापः सत्त्वेऽसत्त्वेऽपि पूर्व किमपि गगनतत्पुष्पवन्नैव साध्यं सर्वार्थसिद्धिः स्यात् । बुद्धयादिरर्थक्रियाऽस्त्विति चेन्न; तस्यानियतत्वात् । विनाशस्तर्हि अर्थक्रियास्त्विति चेन्न; तस्य ते तुच्छत्वात् ध्रुवभावित्वेनाहेतुकत्वाभ्युपगमाञ्च । एवमन्त्यदीपासत्त्वे च तत्कारणपरम्पराया अपि तथात्वं स्यादिति ॥ ३१ ॥ इति क्षणभङ्गभङ्गः ननु साध्यसाधन(हेतुसाध्य)भावे सिद्धे हि प्रस्तुतं पक्षचतुष्टयं सिध्येत् । स एव नास्तीति चार्वाक उत्तिष्ठते-सत्त्वेऽसत्त्वइति । आनन्ददायिनी भावादिति भावः । बुद्धयादिरिति--विषयप्रकाशकतया विषयतया वा बुद्धयादिजनकत्वाभावादिति भावः । आदिशब्देन तमोनिरसनादिर्गृह्यते । नन्वन्त्यदीपस्य सत्त्वं माभूदित्यत्राह-एवमन्त्यदीपादिसत्त्वे इति । (तथाच) उपान्त्यस्यान्त्यदीपजनकत्वेन सत्त्वं वाच्यं ; अन्त्यस्यासत्त्वे तुच्छतयोपान्त्यजन्यत्वमेव न स्यात् ; तथाचोपान्त्यस्याप्यर्थक्रियाविरहात्तच्छता ; तथा पूर्वपूर्वेषामपीति दीपपरम्परावत्सर्वक्षणपरम्पराणामपति चरमबौद्धपक्ष(पात)स्स्यादित्यर्थः ॥ ३१ ॥ इति क्षणभङ्गभङ्गः. कार्यकारणभावसमर्थनार्थमाक्षेपसंगतिमाह-नन्विति । पक्षचतुष्टयमिति वैनाशिकावैनाशिकसाङ्ख्यसिद्धान्तिपक्षचतुष्टयमित्यर्थः ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy