SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां सिद्धान्ते क्षणोपायाङ्गीकाराशङ्कापरिहारों 397 तत्वमक्ताकलापः क्रमवदुपधिवत् स्यात् क्षणत्वं स्थिरेऽपि ॥३० ।। . सर्वार्थसिद्धिः क्षणिकतोक्तेः। तदेतदभिप्रेत्याह-क्रमवदिति । क्षणत्वं–क्षणोपाधित्वमित्यर्थः । आनन्ददायिनी पादीनामेव दृष्टान्तानां सत्त्वादिति चेन्न ; प्रदीपदीनां वर्त्यवयवामिसंयोगादुत्पत्तिः ततो वर्त्यवयवस्य रूपपरावृत्तिलक्षणो दाहः ततो भस्मीभावलक्षणो नाशः ततो दीपनाश इति सहेतुको नाशो नाशकारणसन्निधानापेक्ष इति नाशकारणानां प्रदीपवत् सर्वत्र नियतकालसन्निधि. नियमस्य प्रत्यक्षबाधितत्वान्न तादृशं क्षणिकत्वमपि साधयितुं शक्यमिति भावः । तथाच तत्साधने नियतकालविनाशसामग्रीकत्वमुपाधिरिति द्रष्टव्यं । तदेतदिति--स्थिरतराणामेव पूर्वोत्तरकालव्यापिनां क्रमो भावप्रकाशः. महेश्वरेण . उदाहृतभाष्यस्य क्षणिकत्वनिरसनपरभाष्यस्य च परस्परविरोधो दुष्परिहर इति कथनमज्ञानविलसितमिति सूचितं । साङ्ख्यमते प्रसवधर्मि इति (११) कारिकाविवरणसाङ्ख्यतत्वविभाकरे वंशीधरेण न चैवं धार्मणः क्षणिकत्वापत्तिः ; अभिव्यक्तितिरोभावावस्थाविशेषस्यैव क्षणिकत्वाङ्गीकारात्' इत्युक्तं समाधानं तु पूर्व (५) 'प्रतिक्षणं परिणामिनो हि सर्व एव भावाः ऋते चितिशक्तेः' इति तत्वकौमुदीविवरणे 'प्रतिक्षणमिति-धर्मघयंभेदे धर्माणां कालभेदेन व्यावृत्तिदर्शनाद्धर्मिणोऽपि प्रतिक्षणं भेद आवश्यक इति भावः' इति स्ववचनेनैव निरस्तमिति बोध्यम् ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy