SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः तंत्र साध्यवैकल्यं च घटादीनिदर्शयद्भिः युष्माभिरिव क्रमात्प्रशमनीयम् । अस्ति च सोऽहमिति प्रत्यभिज्ञयास्माकं तत्सिद्धिः। आलयविज्ञानसन्ततिविषयेयमिति चेत्; इदमपि परिभाषामात्रं ; प्रमाणाभावात् । ' नान्यदृष्टं स्मरत्यन्यः' इत परिभाषाया निर्वाधत्वाच्च । * निरर्थकं चेदमालयविज्ञान 390 [जढद्रव्य आनन्ददायिनी - परिहरति---- घटादीनिति । प्रशमनप्रकारमाह — अस्ति चेति । दीपादिविषयप्रत्यभिज्ञावदन्यथासिद्धिमाशङ्कते — आलयेति । आलयः -- प्रवृत्तिविज्ञानाश्रयः । प्रवृत्तिविज्ञानं - प्रवर्तकं घटादिविज्ञानं । विज्ञानंज्ञानस्वरूपमात्मेति सौगतपरिभाषा । तथाच आलयविज्ञानसन्ततिविषयतया न स्थिरत्वसाधिकेति न दृष्टान्तासिद्धिरित्यर्थः । प्रमाणाभावादिति–क्षणिकत्वसाधकानुमानात्प्रागालयविज्ञानसन्ततिकल्पने प्रमाणाभावान्निष्प्रतिपक्षा प्रत्यभिज्ञा स्थिरत्वं साधयेदिति भावः । प्रत्यभिज्ञायाः स्थिरविषयत्वेऽनुकूलतर्कमप्याह – नान्यदृष्टमिति । परिभाषा - व्याप्तिः । तथाच नातिप्रसङ्ग इति भावः । आलयविज्ञानस्यास्थिरत्वे बाधकतर्कान्तरमप्याह -- निरर्थकं चेदमिति । आलयविज्ञानानङ्गीकारे प्रवृत्तिंविज्ञानस्य किञ्चित्सम्बन्धित्वाभावात्प्रवृत्तिः कस्यापि न स्यात् सर्वस्य वा स्यात् अविशेषात् । तदङ्गीकारे तु यदालयविज्ञानसम्बन्धि प्रवृत्तिविज्ञानं तस्यैव प्रवृत्तिं जनयतीति नियमस्सिध्यतीति तदङ्गी भावप्रकाशः 1 * निरर्थकमिति - एतच्च जीवसरे विवेचयिष्यते ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy