SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ 378 सव्याख्यासर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [ जडद्रव्य तत्वमुक्ताकलापः कालानन्तर्यसाम्ये क्षणिकवपुषि ते देशकालाद्युपाचौ सर्वे पूर्वे भवेयुस्तदुपरिभवतां कारणानि सर्वार्थसिद्धिः तज्जन्यत्वं हि तद्धेतुकत्वं । तेन कथं हेतुनैरपेक्ष्यसाधनम् ? हेत्वन्तरनैरपेक्ष्यमपि दुर्वचमित्युक्तं । अतः क्रमभावि सहकारिविशेषात् कार्यान्तरमिव स्वनाशमपि स्वयमुत्पादयतु नाम ! न ततः क्षणिकत्वं सिद्धयेदिति । वाधवामीषां प्रागुक्तप्रत्यभिज्ञया स्पष्टः | आदिशब्दः प्रदर्शितयोर पसिद्धान्तप्रतिज्ञाविरोधयोसङ्ग्रहार्थः । प्रतिकूलतर्क प्रतिहतिमप्याह — कालानन्तर्येति । आनन्ददायिनी हेतुसाध्ययो ( साध्येनहेतो) विरुद्धत्वादित्यर्थः । यद्वा प्रतिज्ञावाक्यस्य हेतुवाक्येन विरुद्धत्वादित्यर्थः । विरोधपरिहारमाशङ्कय परिहरतिहेत्वन्तरेति । तद्वदेव सहकारिणामित्यर्थः । ननु सहकारिसापेक्षत्वेऽप्युत्पत्त्यनन्तरमेव ध्वंससम्भवात् क्षणिकत्वं स्यादित्यत्राह - क्रमभावीति । ध्वंसजनने सहकारिणामाद्यक्षण एव भावित्वमित्यत्र नियामकाभावात् ; यदा कदाचित्सहकारिलाभे प्रतियोगिनो ध्वंसजनकत्वेऽपि न क्षणिकत्वसिद्धिरित्यर्थः ॥ २८ ॥ पूर्वशेषत्वान्न पृथक्संगतिरित्यभिप्रायेणाह — प्रतिकूलेति । ननु भावप्रकाशः क्षणभङ्गपक्षे कुमारिलोक्तदूषणान्युद्धर्तुकामेन शान्तरक्षितेन तत्वसंग्रहे इत्थमुक्तम्-
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy