________________
368
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
सर्वार्थसिद्धिः
'न काचिदपि युक्तिस्स्यात् सर्वक्षणिकवादिनः ॥ २७ ॥ ननु ' ' जातस्य हि ध्रुवो मृत्युः' इति प्रसिद्धं । अतस्सतां आनन्ददायिनी
[जडद्रव्य
क्षणिकवादिमते ग्राहकः कर्ता नैकोऽस्ति । तस्मात्तद्गृहापेक्षा व्याप्तिग्रहः तन्मूलश्च तर्कोऽनुमानं च न सम्भवतीत्यर्थः ॥ २७ ॥
-
पूर्वशेषतया न पृथक्संगतिरित्यभिप्रायेणाह – नन्विति । केचिदाक्षेपसंगतिमाह नन्वितीत्याहुः । मृत्युः -- विनाशः । जननं - सत्ता ।
भावप्रकाशः
1
कश्चित्' इति । अयं चार्थोऽग्रे स्थापयिष्यते । अतो व्याप्तिग्रहणोपपादनप्रयासः गुरूक्तिश्रद्धामात्र निबन्धन एवेति । तात्पर्येण
1
* न काचिदपि युक्तिस्स्यादित्युक्तम् ॥
2
* जातस्य हि ध्रुवो मृत्युरितीति - एतेन परोक्त ध्रुव भावित्वहेतोः पक्षसत्त्वस्य सिद्धान्तिसंमतत्वप्रदर्शनव्याजेन गीताभाष्योक्तदिशा तत्वसंग्रहकृतो विनाशद्वैविध्यकल्पनमनुचितमिति सूचितं; तथाहि' उत्पत्तिविनाशादयस्ततो द्रव्यस्यावस्थाविशेषाः ' इत्यादिभाष्येण उत्पाद इव विनाशोऽपि सहेतुकः असत्त्वाभाववांश्च प्रमाणप्रतिपन्न इत्यादिकं स्थापितं । धर्मधर्मिणोर्भेदः एकस्यैव कालभेदेन नानास्वभावयोगश्च संभवतीत्यत्रैव पूर्वं व्यवस्थापितं । संबन्धानुपपत्तिश्च परिहरिष्यते । अतः उत्पत्तिप्रतीतिरिव नाशसामान्यप्रतीतिः प्रमेति युक्तम् । तत्वसंग्रहेतु
अहेतुकत्वात्किञ्चायं असन् वन्ध्यासुतादिवत् ।
अथवाऽऽकाशवन्नित्यो न प्रकारान्तरं यतः ॥ ३७० ॥ असत्त्वे सर्वभावानां नित्यत्वं स्यादनाशतः ।