SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 356 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः मानत्वं वर्तमानस्य वा अतीतत्वमिह न प्रवर्तनीयं । ननु तत्त्वेदन्त्वे तावत् विरुद्ध; अन्यथा यौगपद्ये विरोधाभावप्रसङ्गात् । आनन्ददायिनी नभ्युपगमाद्वा? उभयथाऽपि पुञ्जबुद्धिर्न स्यात् । नानादेशस्थानामेकदेशसम्बन्धः पुञ्ज इति भावः । न प्रवर्तनीयं-न प्रसञ्जनीयं । अन्यथेति-विरुद्धयो रूपरसयोर्योगपद्यदर्शनादिति भावः । भावप्रकाशः कथमसौ स्फटिको वराकः कालभेदेनाभेदसाधनाय दृष्टान्तीभवितुमर्हति ? नचैवं समानकालकार्याणां देशभेदेऽपि धर्मिभेदो युक्तः : भेदसाधकप्रमाणाभावादिन्द्रियप्रत्यक्षेण निरस्तविभ्रमाशङ्केनाभेदप्रसाधनाच्च इति न कालभेदेऽपि शक्तयशक्तयोर्विरोधः खसमयमात्रादपहस्तयितं शक्यः' इति यदुक्तं तदलग्नकमिति बोधितम् । तत्कालकार्यकारित्वं कालान्तरे तत्कार्याकारित्वेन न विरुध्यते प्रसङ्गतद्विपर्यययोधर्मिभेदसाधकत्वाभावस्योपपादितत्वात् । यद्येवं नाङ्गीक्रियते एकस्यार्थक्षणस्य पुरुषभेदेन विज्ञानजननतद्विरहयोरविवादतया पूर्वोक्तप्रसङ्गतद्विपर्ययाभ्यां देशभेदेन क्षणभेदावश्यम्भावेन एकोऽपि क्षणो न स्यात् । अभेदस्य स्वलक्षणव्यतिरिक्तत्वे कथमिन्द्रियप्रत्यक्षं तत्साधयति ? स्वलक्षणरूपत्वे तु प्रत्यभिज्ञाप्रत्यक्षेण पूर्वापरकालिकाभेदस्य कथमसिद्धिः अभिलापसंसर्गेणेति चेत् ; तार्ह मूकतैव ज्यायसी । योगिज्ञाने योगाभ्यासबलसहकृतं मन इव प्रत्यभिज्ञायामपि संस्कारसहकृतमिन्द्रियमेव करणमिति 'निष्पादितक्रिये चार्थे ' इत्यादितत्वसंग्रहोक्तदूषणस्यापि नावकाश इति भावः । 'प्रमातृप्रमेययोः क्षणिकत्वं वदद्भि. याप्त्यवधारणतत्स्मरणपूर्वकानुमानाभ्युपगमोऽपि दुश्शकः' इति भाष्य
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy