SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ सरः] कालभेदेन विरुद्धस्वीकारेऽपि नाव्यवस्था, अन्यथा एकानेका द्यसिद्धिः 351 तत्वमुक्ताकलापः तत्त्वेदन्त्वे हि कालान्तरघटनमये नैककाले घटेतां सर्वार्थसिद्धिः सिध्यत् । तदभावे च कुतोऽनेकमिति माध्यमिकमतापातः । सैव सुगतमतकाष्ठेति तत्र तिष्ठाम इति चेत् ; तनिष्ठेन त्वया अस्मन्मतबाधकानुपन्यासे विवादाभावः । तदुपन्यासे तु तत्रतत्र तद्वाधावाधविकल्पदास्थ्यं दुष्परिहरमिति भावः ॥ २५ ॥ पुनरपि प्रकारान्तरेण प्रत्यभिज्ञाबाधकं विरुद्धधर्माध्यासं प्रतिबन्दिविशेषमप्याशङ्कते-तत्त्वेदन्त्वे हीति । अतीतकाल आनन्ददायिनी जन्यत्वाजन्यत्वादिप्रकारेण । तदभावे इति-तथाच वस्तुनः पारमार्थिकत्वे तस्यैव किञ्चित्प्रति कुर्वत्त्वं किञ्चित्प्रत्यकुर्वत्त्वमित्यादि. विरुद्धधर्माध्यासस्यावश्यकत्वात् ; तादृशस्यासम्भवात् ॥ कुर्वतोऽकुर्वतो नैक्यं सतश्चाप्यसतस्तथा । अजन्यस्य च जन्यस्य तथाभातमतो मृषा ॥ इति माध्यमिकमतापात इत्यर्थः । सैवेति-माध्यमिकमतमेवेत्यर्थः। शैत्यं हीत्यादिवत् स्त्रीत्वं । तदुपन्यास इति-बाधकोपन्यासे उपन्यस्तं प्रमाणं बाधितं न वा ? आये अस्मन्मतबाधो न स्यात् । द्वितीये बाघस्याबाधितत्वान्माध्यमिकमतं न स्यादिति माध्यमिकमस्य दुस्थत्वादित्यर्थः ॥ २५ ॥ ननु पूर्वमेव प्रत्यभिज्ञायां विरुद्धधर्माध्यासदोषमाशङ्कय परिहृतत्वात् उत्तरपद्ये पुनस्तदेवोच्यत इति पौनरुक्तयमित्यत आह-पुनरपीति ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy