SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ 330 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः 1 * रूपादिधीवदित्येव वोदाहर्तव्यम् । तदियं प्रमितिस्सती प्रत्यभिज्ञा पूर्वापरकालवर्तिविपयं साधयति । दीपनदीप्रवाहकृत्तपुनः प्ररूढकेशादिषु तु संप्रतिपन्नसामग्रीभेदादिबाधकबलात् ___आनन्ददायिनी ननु तेषां धर्मधर्मिभावाभावात् कथमेकत्वबुद्धिदृष्टान्तः ? इत्यत आह-रूपादिधीवदिति । तथा च एकत्वधीः-अभेदधीरित्यर्थः । प्रत्यभिज्ञाया ऐक्यसाधकत्वे अतिप्रसङ्ग परिहरति-नदीप्रवाहेति । सम्प्रतिपन्नेति । तथा च न तुल्यबलत्वमिति भावः । आद्यदीपज्वालोत्पत्तौ अग्निवर्त्यवयवसंयोगो हेतुत्वेन निश्चितः । तथाऽन्त्यवर्तिसंयोगनाशो ज्वालानाशहेतुत्वेनावगतः । ततः प्रतिक्षणं अग्निवर्त्यवयवसंयोगतन्नाशानां भिन्नभिन्नानामुत्पद्यमानानां प्रतिक्षणं ज्वालातन्नाशोत्पादकत्वात् तत्र प्रत्यभिज्ञा बाधिता न साधिकेत्यर्थः । एतेन विप्रतिपन्नैकत्वधीः न प्रमा प्रत्यभिज्ञात्वात् नद्यादिप्रत्यभिज्ञावदिति प्रतिरोधः । तथा पूर्वानुमाने भावप्रकाशः इति । आर्यलकावतारसूत्रे क्षणिकतापरिवर्ते तु अन्यार्थ इत्युक्तम् । अनुत्पत्तिं च धर्माणां क्षणिकार्थं वदाम्यहम् । उत्पत्त्यनन्तरं भङ्गं न वै देशमि बालिशान् ॥ इतीति भावः । ननु वैभाषिकमते एकत्वस्य धर्म्यभेदेऽपि तत्प्रकारकज्ञानमेवैकत्वधीः न तु धर्मिमात्रावगाहि निर्विकल्पकं । तत्प्रकारकज्ञानं च अतद्रूपपरावृत्त्यवगाहि विकल्प एवेति न प्रमेति तत्सिद्धान्त इत्यतो धार्ममात्रावगाहि निर्विकल्पकमेव दृष्टान्तयति-1 रूपादिधीवदिति ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy