________________
सरः ]
त्रिगुणपरीक्षायां क्षणभङ्गसाधनानुवादः
323
भावप्रकाशः
तस्य प्रवृत्तसमारोपव्यवच्छेदाभावात् । किं पुनः कारणं सर्वतो भिन्ने वस्तुरूपे अनुभवोत्पत्तावपि तथैव न स्मार्तो निश्चयो भवति ? उच्यते ; कारणान्तरापेक्षत्वात् । न ह्यनुभूत इत्येव निश्वयो भवति ! तस्याभ्यासार्थित्वपाटवादिकारणान्तरापेक्षत्वात् । यथा जनकाध्यापकाविशेषेऽपि पितरमायान्तं दृष्ट्रा पिता म आगच्छति नोपाध्याय इति निश्चिनोति । ' इति पञ्चिकोक्तसमाधानादरे च अनुवृत्तेोरदन्तांशस्य च पूर्वमगृहीतस्य विकल्पे ग्रहणेन तदंशमादायानधिगतार्थगन्तृत्वस्य विकल्पेऽपि संभवात् बुद्धिसरे तत्त्वेदन्त्वे इति श्लोकविवरणे च प्रत्यभिज्ञाया अपि समारोपव्यच्छेदव्यवस्थापनपूर्वकं सन्दिग्धवस्तुनिर्णयनिबन्धनमेव प्रत्यभिज्ञाप्रामाण्यं' इति पञ्चिकाङ्क्षिप्त (४५८) पक्षस्सिद्धान्तयिष्यते । अतः - तत्वान्यत्वोभयात्मानस्सन्ति जात्यादयो न च ।
यद्विकल्पकविज्ञानं प्रत्यक्षत्वं प्रयास्यति ॥ ( ९३०४) वस्तुतस्तु निरालम्बो विकल्पस्संप्रवर्तते ।
तस्यास्ति विषयो नैव यो विभिद्येत कश्चन ॥ (१३०९)
इति ।
अनुमानं सविषयं वर्ण्यते न त्वगोचरम् । (१३३९) इति च परमताभिप्रायेण । तत्वसंग्रहे ' न हि बौंद्धानामिव परेषां निर्विषयं परमार्थतोऽनुमानम्' इति पञ्चिकायां भ्रान्तं ह्यनुमानं स्वप्रतिभासेऽनर्थे ऽध्यवसायेन प्रवृत्तत्वात् । प्रत्यक्षं तु ग्राह्ये न विपर्यस्तं ' इति न्याबिन्दुटीकायां च वस्त्वग्राहकत्वेन प्रत्यक्षविकल्पतुल्यतयोक्तस्यानुमानविकल्पस्यापि प्रामाण्यं । तेन वस्तुधर्मक्षणिकत्वसाधनं च न संभवति । ग्राह्याध्यवसेयभेदेन विषयद्वैविध्यं तु शशविषाणायते इति बुद्धिसरे विवेचयिष्यते इति भावः । न्यायबिन्दौ यत्सत् तत्सर्वमनित्यं यथा घटादिरित्यत्र धर्मकीर्तिवाक्ये अनित्यत्वं क्षणिकत्व
21*