SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सर:] त्रिगुणपरीक्षायां कार्ये उपादानाभेदसाधनानिर्वाहः सर्वार्थसिद्धिः तत्र भेदोऽपि ! न तृतीयः; कारणेषु परस्परसम्बन्धिषु व्यभिचारात् त्वत्पक्षेणासिद्धेश्व । न हि '* धर्मधर्मिणोस्तादात्म्यवादिनस्तत्सम्बन्धित्वसम्भवः ! आनन्ददायिनी हि कार्यस्याङ्गीकृतं! तस्य तद्भेदाभावे तत्र सत्त्वायोगादिति भावः । तथाच अत्रानुमाने भिन्नत्वे सति अभिन्न सत्ताकत्वं तादात्म्यं साध्यमिति ध्येयम् । असिद्धिमेवोपपादयति — न हीति । तत्र हेतुमाह भावप्रकाशः 1 * धर्मधर्मिणोस्तादात्म्यवादिन इति — उदाहृतवाचस्पतिग्रन्थे भेदाभेदस्य स्फुटत्वात् तत्वकौमुद्यां सविकल्पकनिरूपणावसरे ' अस्तिह्यालोचनम् ! 299 ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया । बुद्ध्याऽवसीयते साऽपि प्रत्यक्षत्वेन सम्मता || इति । इति भेदाभेदवादिकुमारिलश्लोकवार्तिकोदाहरणात् । भिन्नाभिन्नत्वमेकस्य कुतोऽत्र परिकल्पितम् । त्वया सांख्यमतेनैव मुक्ता बुद्धस्य शासनम् ॥ (श्लो+वा + प्रत्य+सू १२०) (शून्यवादे १२३) तस्मादत्यन्तभेदो वा कथञ्चिद्वाऽपि भिन्नता । सन्तानस्येत्ययं चात्मा स्याद्वैशेषिकसांख्ययोः ॥ (आत्मवादे ४२)
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy