SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ त्रिगुणपरीक्षायां सत्कार्यवाद तृतीयतुरीयहेत्वोर्निरासः 297 सर्वार्थसिद्धिः नाशप्रसङ्गात् । सर्वत्र वा अतिप्रसङ्गात् । दूषणेषु च दृष्यं वर्तते न वा ? पूर्वत्र दूषणत्वादेरिव तद्वृत्तेस्तेन दूषणायोगः । उत्तरत्र तद्वृत्तिरहितस्य घटादेरिव तद्दृष्यत्वं न स्यात् । अथैतेषु यथादर्शनं व्यवस्थेष्यते ; प्रकृतेऽपि तथा स्यात् । एवं निमित्तादिप्रतिबन्धैव कार्यस्य कारणभावस्सर्वत्र सर्वसम्भवप्रसङ्गश्व निरस्तः । यानि च सांख्यानां अवस्थातद्वतोरभेदसाधकानि तेषु यदेतत्:पटस्तन्तुभ्यो न भिद्यते तद्धर्मत्वादितिः अत्र तावत्प्रतिज्ञाहेतुविरोधः स्पष्टः । दृष्टान्ताभावेन व्याप्तिश्च नास्ति । यद्यतो भिद्यते न तत्तस्य धर्म इति व्यतिरेकव्याप्तिरस्तीति चेन्न; सपक्षेभ्यस्तन्तुभ्योऽपि व्यावृत्तत्वेन केवलव्यतिरेकित्वायोगात् । आनन्ददायिनी सरः] w तत्वात् प्राप्तरजतनाशकत्वं दृष्टं नाप्राप्तमिति प्रतिबन्द्यन्तरमित्यर्थः । केचित्तु–साङ्ख्यमत एव भ्रमस्थले रजतस्य शुक्तावविद्यमानस्य दोषादिघटितसाग्रयाऽभिव्यक्तिरिति वक्तव्यम्, अन्यथाख्यात्यङ्गीकारे तस्या नित्यत्वप्रसङ्गेनानिर्मोक्षप्रसङ्गात् । तथाच तस्य भ्रमत्वमधिष्ठान साक्षात्कारमात्रस्य निवर्त्यत्वात् । निवृत्तिश्च तिरोधानमेव । तथाच प्राप्तनिवर्तकत्वे शुक्तौ रजतसत्त्वप्रसङ्गः । तथाऽङ्गीकारे च सर्वं सर्वत्र वर्तेत; सर्वत्र भ्रमसम्भवात् । तथाच अप्राप्तमेव रजतम (मित्य) भिव्यक्तं तिरोहितमिति वाच्यं तदा शुक्तिरूप्यतत्तुल्यता प्रसजेत् तथा ( एवं ) च आपण - स्थरजतस्यापि (सत्यरूप्यस्य शुक्तिभावस्यान्निवर्तनमिति न्यायेन) शुक्तिरूप्यवन्निवृत्तिस्स्यादित्यर्थः । प्रतिबन्द्यन्तरमाह — दूषणेष्विति । अनेन सर्वसम्भवाभावादिति विवक्षितहेतुश्च दूषित इत्याह--- प्रतिज्ञाहेतुविरोध इति । धर्मत्वस्य भेदघटितत्वादिति भावः । सपक्षेभ्य इति - ;
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy