SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ सव्यांख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः न हि व्यक्तौ विशेषोऽस्ति न चावरणवारणम् || आनन्ददायिनी किमभिव्यक्तिरावरणनिवृत्तिः तदनुकूलव्यापारो वा ? नोभयत्र तारतम्यभावप्रकाशः 290 उपमानपरिच्छेदे— पृथिव्यादिषु चैतेषां सतामेव स्वभावतः । परिंणामादिभिर्व्यक्तिर्व्यथादृष्ट्यवधार्यते ॥ न हि शक्तात्मना किञ्चिदसज्जन्म प्रपद्यते ! | इति । आत्मवादेऽपि — [ जडद्र्व्य नचावस्थान्तरोत्पादे पूर्वात्यन्तं विनश्यति । उत्तरानुगुणत्वात्तु समान्यात्मनि लीयते । स्वरूपेण ह्यवस्थानां अन्योन्यस्य विरोधिता । अविरुद्धस्तु सर्वासु सामान्यात्मा प्रवर्तते ॥ इति । एतच्च उदाहृतपञ्चशिखाचार्यवचनसमानार्थकम् । एवंचावस्थानामपि सर्वकालसंबन्धित्वमुभयसंगतमेव । योगभाष्ये अर्थक्रियाकारित्वतदभावोपपादनभनेकान्ताश्रयणेन कृतम् । नावस्थानां सर्वकालासंबन्ध उक्तः । सांख्यैस्तु - अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः । प्रवर्तते त्रिगुणतस्समुदयाच्च । परिणामतस्साललवत्प्रतिप्रतिगुणाश्रयविशेषात् । इत्यनेन 'गुणिनित्यत्वेऽपि' इत्यादियोगभाष्योक्त एवार्थोऽनेकान्तपक्षमनवष्टभ्यैवोक्त इति पक्षद्वयतात्पर्यमाकलय्य वाचस्पतिना तात्पर्यटीकायां तथोक्तमिति सुधीभिरूह्यम् ||
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy