SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ सर: त्रिगुणपराक्षाया सत्कायवादाद्वतायहतुनिरासः निग्रहाद्भावनं च 273 सर्वार्थसिद्धिः कार्यप्राप्तेः कारणानां मिथः प्राप्तिवत् '* त्वयाऽप्यदृष्टत्वात् । * तदिहानङ्गाङ्गीकारो युक्ताङ्गहानिश्च प्रागसत्त्वयुक्तस्योपेक्षणात् । अविषयवृत्तित्वं वा कारकाणां सम्बन्धस्य; विरुद्धस्थले संचरणात् । समश्च प्राप्तावप्यतिप्रसङ्गः । न हि प्राप्तयोरपि रज्जुघटयोर्जन्यजनकता! तत्र नित्यप्राप्तिर्नास्तीति चेत् ; निमित्तानामपि घटादिभिनित्यप्राप्तयसम्भवात् । उपादाने तु स्यादिति __ आनन्ददायिनी कार्यस्या (स्यासिद्धत्वनियमात् ) सिद्धत्वे सिद्धं प्रत्युत्पादकत्वस्यासंभवादित्यर्थः--अनङ्गाङ्गीकार इति । अनपेक्षितस्वीकारो निग्रह इत्यर्थः -- युक्ताङ्गहानिः । सिद्धत्वस्य प्रतिबन्धकतया तदभावरूपस्यासिद्धत्वस्योत्पत्त्यनुकूलतया तत्त्याणे युक्ताङ्गहानिर्निग्रह इत्यर्थः । अविषयवृत्तित्वं चेति । अविषये—स्वविषयतानहें स्वव्यापारफलपतिकूल एव वृत्तित्वं वेत्यर्थः । विरुद्धस्थले--- स्वव्यापारफलप्रतिबन्धकस्थले । एवं च तव निग्रहत्रयामिति भावः । अव्यवस्थाभयादिति द्वितीयं दूषयति ----समश्चेति । तदेव दर्शयति-न हीति । भावप्रकाशः ___1 * त्वयाऽप्यदृष्टत्वादिति-अनभिव्यक्तं कारणं अभिव्यक्तं कार्य ; “अनभिव्यक्तिश्च अतीताख्यो लक्षणपरिणामः अभिव्यक्तिश्च वर्तमानताख्य इति भवसिद्धान्तेन कार्यनियतपूर्ववृत्तित्वस्य कारणे भवताऽप्यङ्गीकारादिति भावः । जातिदोषानाह-* तदिहेत्यादिना एतेषां स्वरूपं तु बुद्धिसरे ‘युक्तत्यागस्त्वयुक्तग्रहणमविषये . वृत्तिरप्यत्रदोषा' ' इत्येतद्विवरणे स्फुटीभविष्यति ॥ SARVARTHA.
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy