SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ 268 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः * अतः कारणाद्भिन्नत्वेन दृष्ट कार्य तेनाकारेण पूर्व नासीदिति त्वयैवाकामेनापि स्वीकर्तव्यम् । न हि घटाकारेण निष्पन्नस्य आनन्ददायिनी अभावे सर्वेषां स्वखावस्थाविशिष्टानां प्राक्सत्वात् किंचिन्न कस्यचिद्विकृतिरित्यर्थः । न च यद्यतः कदाचिदभिव्यक्तं तत्तद्विकृतिरिति विभागः; अभिव्यक्तेः प्रकाशात्मकत्वे प्रकृतेरपि कदाचिच्छब्दादिभिः प्रकाशात्तद्विकृतित्वप्रसङ्गात् । आपरोक्ष्यविवक्षायां प्रकृत्यादि (त्यादीनां) (प्रति) महदादि विकृतिर्न स्यात् । तस्या (तेषामा) परोक्ष्याभावात् । न च यद्यस्माद्विभज्यते सा तस्य प्रकृतिरिति विभागः ; विभागस्य प्राक्सत्त्वे असत्त्वे च (उक्तदोषात्) असाध्यत्वप्रसङ्गात् । न चाभिव्यक्तिरन्या; तस्याः पराभिमतोत्पत्तेरन्यस्या दुर्वचतया आद्यक्षणसम्बन्धात्मिकायाः प्रागसत्त्वनियमादिति भावः । अवस्थायाः प्राक्सत्वे कारकव्यापारवैयर्थ्यमित्याह-नहीति । निष्पन्नस्य-सिद्धस्य निष्पाद्यत्वायोगात् ; अन्यथा घटस्योत्पन्नस्य सर्वदोत्पादप्रसङ्गादिति भावः। ननु न कारक भावप्रकाशः नुमाने पर्यवसानं बोध्यम् । '* अतः कारणाद्भिन्नत्वेनेत्यादि-एतेन कार्यदृष्टेरिति मूलस्य कारणाद्भिन्नत्वेन कार्यस्य दर्शनादित्यर्थ इति सिद्धम् । इत्थं च अवस्थानां कारणव्यापारात्पूर्व सत्त्वसाधने प्रत्यक्षबाधो दोष उद्भावितो भवति । कारणाच्चास्य सतोऽभिव्यक्तिरवशिष्यते; ‘सतश्चाभिव्यक्तिरुपपन्ना' इति वाचस्पत्युक्तिं दूषयति--
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy