SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ 260 संव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्गव्य सर्वार्थसिद्धिः न ह्यसत् खपुष्पादि क्रियेत ! माभून्नित्यासतः करणम् ! अत्र प्रागसत्त्वमानं विवक्षितमिति चेन्न; तद्वदेव कदाचिदसतस्सर्वदैवासत्त्वापातात् । न चासतः कदाचित् सत्त्वापत्तिः; विरोधात् । *न हि चिच्छक्तेः कदाचिदपि जडत्वं जडस्य वा चित्त्वम् ; आनन्ददायिनी मूलेऽपि सदितरजननाप्राप्तनिप्पत्त्ययोगात् इति व्यतिरेकव्याप्तिप्रदर्शनमुखेन उक्तहेतुद्वयमभिप्रेतम् ; अन्यथा वैयधिकरण्यप्रसङ्गात् । कारणभावात्-काणात्मकत्वादिति तृतीयो हेतुः । सर्वसंभवाभावात् शक्तस्य शक्यकरणात् इति आद्यद्वयस्यानुग्राहकम् । तथाच प्रथममुक्तं तर्कतद्धेतुद्वयं दूषयितुं हेतुद्वयं व्याख्यातामति द्रष्टव्यम् । व्यतिरेकव्याप्तौ नित्यासत्त्वं साधनावच्छिन्नसाध्यव्यापकमुपाधिरिति शङ्कतेमाभूदिति । साध्यस्यासत्त्वमात्रस्य अनुकूलतर्कबलाव्याप्तिग्रहे साधनाव्यापकता नास्तीत्याह-नेति । साधनाव्यापकत्वभङ्गमेवोपपादयतिनचासत इति । कालभेदेनाऽप्यविरोधासंभवादित्यर्थः । ननु एकस्यानेक भावप्रकाशः परत्वेन तत्साधकत्वात् ; तथा हि-विमतं कालत्रये सत् जन्यत्वादित्यदि। अत्र तत्वकौमुद्यां 'असञ्चेत्कारणव्यापारात्पूर्व कार्य नास्य सत्त्वं केनापि कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रणाऽपि पतिं कर्तुं शक्यम्' इत्युक्तम् । तत्र नीलवस्त्रादेः क्षारादिना नीलरूपपरावृच्या हरिद्रादिना पीततासंभवमालोच्य तत्वकौमुदीवाक्यस्य अन्यस्यान्यथाभावानुपपत्तौ तात्पर्यमाकलय्य दृष्टान्तान्तरमाह नहि चिच्छक्तरित्यादिना.। एतेन साङ्यमते धर्मधामणोर्मेदो नाङ्गीक्रियते इति तत्वकौमुदीविभाक
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy