SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां सहव्यवादसाधने अवयविसाधक न्यायवार्तिककारन्यूनता 245 सर्वार्थसिद्धिः मुधा चोदाहृतं *कौश्चि*द्धिमवत्परमाणुकम् । टीकाकारस्तु तत्राह सूक्ष्मद्रव्योपलक्षणम् । विशेषानुपलम्भेऽपि राश्येकत्वमतिर्यथा । वृक्षादिष्वपि तद्वत्स्याद्यथादृष्टि व्यवस्थितः ॥ आनन्ददायिनी वाप्रत्यक्षमित्याशङ्कितं न तु पृथिव्यादिकमित्यत्राह--मुधा चोदाहृतमिति हिमवत्सहितः परमाणुरस्येति बहुव्रीहिः; 'तदस्य परिमाणम्' इति वा निर्वाहमाहुः । स एषां ग्रामणीः' इति मान्याः; हिमवत्परमाणू ग्रामण्यौ निर्वाहकौ–कारणे इति निर्वहन्ति। ब्रीह्यादित्वात् मत्वर्थे इनिरिति केचित् । पृथिव्यादिकं परित्यज्याविमृश्य विशेषत उदाहरणं व्यर्थमित्यर्थः । अत एव टीकाकारस्तदुदाहरणमुपलक्षणमित्युक्तवानित्याहटीकाकारस्त्विति। ननु अवयव्यनभ्युपगमे संघातस्य बहुत्वात्कथमेकत्वधी. व्यवहारावित्यत्राह --- विशेषानुपलम्भेऽपीति । विशेषोऽवयवी तस्य राश्यादिष्वभावेऽपीत्यर्थः । वृक्षादिष्वपीति-स्कन्धपलाशादिव्यतिरिक्तावयव्यनभ्युपगमेऽपि वृक्षधीः राश्यादाविव स्यादित्यर्थः । ननु संघातस्यैव भावप्रकाशः प्स्यत ; स च खपुष्पसोदर एवेति । '* कैश्चित्-न्यायवार्तिककृाद्भिः । हिमवत्परमाणुकमिति-उदाहृततात्पर्यटीकापलोचने हिमवान् परमाणुरस्येत्यादिव्युत्पत्त्या हिमवत्परमाणुकं व्यणुकमिति यथाश्रुतार्थः प्रतीयते। न वयं बौद्धवदतिरिक्तावयव्यङ्गीकारे वृत्तिविकल्पानुपपत्त्यादिबाधकमात्रमुद्भाव्य अवयवातिारक्तमवयविनं व्यासेधामः ; किंतु करणाकरणरूपविरुद्धधर्माध्यासेन पूर्वापरकालस्थायि वस्तु नैकं अपि तु क्षणिकमेवेति वादिनो वैनाशिकान् प्रतिक्षिपतां भवतां पूर्वापरकालस्थायिवस्त्वैक्यं साधयति यत् प्रत्यभिज्ञाप्रमाणं तदेवार्धवैनाशिकान् युष्मानपि परिभूय पूर्वा
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy