________________
रंसः
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
205
सर्वार्थसिद्धिः कुत्रैषा व्याप्तिः ?
सिद्धो ह्यन्यत्र दृष्टान्तः साध्ये त्वन्योन्यसंश्रयः ।
त्रसरेणुः पराणुस्सन् किं नाध्यक्षोऽपराणुवत् ।। चाक्षुषत्वप्रकर्षनिकर्षयोमहत्त्वप्रकर्षनिकर्षानुविधानात् द्रव्यस्य चाक्षुषत्वं महत्त्वनियतमिति चेत् ; चाक्षुषावयवकस्यैव द्रव्यस्य चाक्षुषत्वनियमदर्शनात् । अचाक्षुषावयवकस्य त्रसरेणोरप्यचाक्षुषत्वप्रसङ्गे कस्ते निस्तारः ? अगत्येति चेत् ; भवतु कुतश्चिन्महत्त्वाभावेऽपि क्वचिदेवं।
आनन्ददायिनी कुत्रेति-गृहातेति शेषः । प्रत्यक्षसिद्धो दृष्टान्त उतानुमानिक इति विकल्पमभिप्रेत्याद्यं दूषयति—सिद्ध इति । नात्र प्रत्यक्षसिद्धिरिति भावः । द्वितीयं दूषयति–साध्ये विति । तस्यापि दृष्टान्तापेक्षायामनुमानान्तराधीनस्य दृष्टान्तत्वे चक्रकानवस्थाप्रसङ्गात्प्राथमिकानुमानगम्यस्यैव दृष्टान्तत्वेऽन्योन्याश्रय इत्यर्थः । त्रसरेणोः परमाणुत्वेअप प्रत्यक्षत्वं साधयति-त्रसरेणुरिति । परमाणुस्सन्—परमाणुस्थानापन्नः । त्रसरेणुरध्यक्षः अणुत्वात् तदपेक्षया स्थूलजालमरीचिमध्यभासमानाणुवत् । इन्द्रियस्याणुत्वं नास्तीति — अणवश्चेति' सूत्रे प्रत्यपादीति भावः । महत्त्वस्य बहिर्द्रव्यप्रत्यक्षव्यापकत्वात्रसरेणौ तन्निवृत्तिमाशङ्कते-चाक्षुषत्वति । बहिर्द्रव्यप्रत्यक्षत्वेत्यर्थः । यद्वा चाक्षुषत्वनिवृत्तिमाशङ्कत इत्यर्थः । साहचर्यमानं न व्याप्तिग्राहकमप्रयोजत्वादित्याह-चाक्षुषावयवस्यैवेति । तथाचात्र त्रसरेणौ विश्रमानङ्गीकर्तुस्तदतिरिक्तपरमाण्वभ्युपगन्तुरपीत्यर्थः । कुताश्चत्कारणान्तरात् । क्वचित्-त्रसरेणौ महत्त्वरूपपरिमाणाभावेऽपि । एवं