SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ 198 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः बुद्धेस्त्वंशानपेक्षा स्फुरति विषयिता सर्वार्थसिद्धिः अणुष्वपि तथा स्यात् । तत्राह-बुद्धस्त्विति । तुः शङ्कानिवृत्त्यर्थः । विषयित्वं ह्यशानपेक्ष(त)यैव दृष्टं । न ह्यन्यतोऽपि तस्यान्यथा दृष्टिः । अतो यथोपलम्भमेकवदनेकोऽपि विषय एकस्या बुद्धेः । एवमेकस्य निरंशस्यानेकबुद्धिविषयत्वमपि आनन्ददायिनी संविदोऽप्युपयुक्तत्वादिति भावः । उल्लेखो—विषयीकरणं । अंशानपेक्षयेत्यत्र अंशस्यापेक्षा न विद्यते यस्येति गमकत्वात्समास इति ध्येयम् । न ह्यन्यत इति-उपाध्यधीनांशभेदक्लप्त्या वा बुद्धेविषयता दृष्टा नेत्यर्थः । यथोपलम्भमिति–एकविषयत्ववदनेकविषयत्वस्यापि दर्शनानुसारादुपपत्तिः ; वस्तुव्यवस्थाया उपलम्भानुसारित्वादित्यर्थः । भावप्रकाशः सह जन्म (यस्य) तस्य दर्शनमेकसामग्रीप्रतिबद्धत्वात् प्रतीत्यसमुत्पादस्याचिन्त्यत्वाच्च । न तु परमार्थतो दर्शनमस्ति ; येनैवं दृष्टादिव्यवहारः । वेदना तेन नेक्ष्यते--येन दृष्टसुखसाधनादिव्यवहारोऽप्यन्यत एव तेन कारणेन वेदना नेक्ष्यते--न च दृश्यते वस्तुतः इति । ज्ञानार्थयोः परमार्थतो निराकारयोः । संसर्गज अकार इति बुद्धिसरे संसर्गाद्वोध्यबुद्धयोः (२८) इति श्लोके वक्ष्यमाणः पक्षो माध्यमिकामिमत इति प्रतिभाति ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy