SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 166 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य भावप्रकाशः णामः कादाचित्कस्स्यात् ; यतः सत्यपि व्ययोत्पादवत्त्वे पर्यायाणां 'तद्भावाव्ययं नित्यं' (३०सू)। किं अध्यवस्यामः । द्रव्यमिति वाक्यशेषः । तद्भाव इत्युच्यते ; कस्तद्भावः? ' प्रत्यभिज्ञानहेतुना तद्भावः। तदेवेदमिति स्मरणं प्रत्यभिज्ञानं । तदकस्मान्न भवति इति योऽस्य हेतुः स तद्भावः । भवनं भावः तस्य भावस्तद्भावः इति । यद्येति उत्पद्यते च तत्सन्नित्यं चेत्यतिसाहसमेतत् दुरुपपादत्वात् कथं श्रद्धीयत इति ; अत्रोच्यते ; श्रद्धेहि ; व्ययोत्पादवत्सु पर्यायेषु अव्यभिचारिण सन्नित्यत्वे स्त इति । कुतः? यस्माद्दव्यार्थिकपर्यायार्थिकनयसंभवे अन्यतरविवक्षावशात् यथोक्ते उभे अपि । 'अर्पितानर्पितसिद्धः (३१) । धर्मान्तरविवक्षाप्रापितप्राधान्यमर्पितं—अनेकात्मकस्य वस्तुनः प्रयोजनवशाद्यस्यकस्यचिद्धर्मस्य विवक्षायां प्रापितप्राधान्यमर्थरूपमर्पितमुपनीतमिति यावत् । 'तद्विपरीतमनर्पितम्' प्रयोजनाभावात् सतोऽप्यविवक्षा भवतीत्युपसर्जनीभूतमनर्पितमित्युच्यते। अर्पितं चानर्पितं च अर्पितानर्पिते । ताभ्यां सिद्धे सन्नित्यत्वे अर्पितानर्पिताभ्यां सिद्धे सन्नित्यत्वे अर्पितानर्पितसिद्धिः । तद्यथा-मृात्पण्डः रूपिद्रव्यमित्यर्पितस्स्यान्नित्यः तदर्थापरित्यागात् । अनेकधर्मपरिणामिनोऽर्थस्य धर्मान्तरविवक्षाव्यापारात् रूपिद्रव्यात्मनानर्पणात् मृत्पिण्ड इत्येवमर्पितं पुद्गलद्रव्यं स्यादनित्यं तस्य पर्यायस्याध्रुवत्वात् । तत्र यदि द्रव्यार्थिकनयविषयमात्रपारग्रहः स्यात् व्यवहारलोपः; तदा त्मकवस्त्वभावात् । यदि पर्यायार्थिकनयगोचरमात्राभ्युपगमः स्यात् लोकयात्रा न सिद्ध्यति ; तथाविधस्य वस्तुनोऽसद्भावात् । तावे. कत्रोपसंहृतौ लोकयात्रासमर्थौ भवतः । तदुभयात्मकस्य वस्तुनः प्रसिद्धेः । इत्येवमर्पितानर्पितव्यवहारसिद्धे सान्नित्यत्वे इति । उदाहृतग्रन्यसंदर्भे पर्यायाणां विचित्रत्वं तेषामेव गुणानां अक्रमत्वमपि स्फुटम् ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy