SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सर:] त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः 145 सर्वार्थसिद्धिः भग्नः । त्वयापि संहतैस्सत्वादिभिर्जगदारम्भोक्तेश्च । * यत्र कार्याणां विभागाविभागदृष्टिः न तत्र सर्वत्रोपादानत्वं निमित्ते पि क्वचित्तद्दष्टेः । अरणेरिवारणेयस्य । न हि काष्ठे पार्थिवांशो वढेरुपादानं नच वह्नयंशो धूमस्य । * एवं सति नाव्यक्तस्यैव सिद्धिः विश्वनिमित्तस्यापि कस्यचिदेवमनुमातुं शक्यत्वात् । तस्य च विजातीयस्यापि संभवात् । आनन्ददायिनी जगत एकप्रकृत्युपादानकत्वसाधने स्वमते बाधो विशेषविरुद्धश्चेत्याहूत्वयाऽपीति । पूर्वोक्तानुमाने व्यभिचारमप्याह—न तत्र सर्वत्रोपादानत्वमिति–उपदानत्वनियमो नेत्यर्थः । आरणेयस्य--अराणिजन्यस्य । शुभ्रादित्वादपत्यार्थे ढक्प्रत्ययः । व्यभिचारस्थलान्तरमप्याह-न च वयंश इति। अव्यक्तस्य-प्रकृतेः । उभयथा विभागाविभागदर्शनान्निमित्तोपादानयोरुभयोरप्यनुमानप्रसङ्गेन तत्वसंख्याव्याघातः ; तत्परिहारार्थमन्यतरानुमाने निमित्तमात्रस्यैव सिद्धिप्रसङ्गेनार्थान्तरमित्याहविश्वनिमित्तस्येति । नन्वस्त्वकं निमित्तं सैव प्रकृतिरित्यत्राहविजातीयस्यापीति । कार्यस्य सत्वाद्यात्मकतया तदात्मिका प्रकृतिस्त्वया भावप्रकाशः विभागाविभागयोःससंबन्धिकत्वेन यद्यस्माद्विभक्तं तत्तदुपादानकामिति व्याप्तिरङ्गीकरणीया तथा सत्यनैकान्त्यमित्याह-* यत्रेत्यादि । वंशीधरोक्तरीतिमपि दूषयति-* एवं सनि नाव्यक्तस्येत्यादिना । निमित्तकारणमादायार्थान्तरेण वंशीधरोक्तमयुक्तं । अभिव्यक्तिप्रकारश्च निरसिष्यते । अव्यक्तोपादानकारणकत्वसाधनेऽपि हेतुरप्रयोजक इति । SARVARTHA.
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy