________________
140
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सव्य
जडद्रव्य
सर्वार्थसिद्धिः * 'ननु स्थूलदेहद्वयान्तराळवर्ती क्षेत्रज्ञस्तात्कालिकदेहवान् क्षेत्रज्ञत्वात् यस्तथा स तथा यथा कालान्तरवर्तीत्यनुमी (यते) येत । मैवं ; विपक्षे बाधकाभावात् । गत्युपदेशानुपपत्तेः परिहतत्वात्। अशरीरत्वे मुक्तत्वप्रसङ्ग इति चेन्न । प्रळयवदविरोधात् । तत्रापि सूक्ष्माचिद्विशिष्ट एव पुरुष इति चेन्न, अत्रापि तावन्मात्रसाधने सिद्धसाधनात् । आगमस्तु गत्यवस्थायां
आनन्ददायिनी शङ्कते-नन्विति शरीरवत्त्वे साध्ये सिद्धसाधनमिति तात्कालिकेति। विपक्षबाधमाशङ्कते अशरीरत्व इति । प्रळयवदिति । त्वयापि महाप्रलये लिङ्गशरीरनाशस्याङ्गीकारादिति भावः ।
तस्मादपिचासिद्धं परोक्षमाप्तागमात्सिद्धम् । इति न्यायेन तृतीयमाशङ्कते । आगमस्त्विति-'वेत्थ कतम्यामाहुतावापः पुरुषवचसो भवन्तीति प्रश्ने; इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स यथा पेशसा मात्रामुपाददानोऽन्यन्नवतरं कल्याणतरं कल्याणतमं रूपं कुरुते । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ।'
. भावप्रकाशः सतामाभप्रेत्य अनुमानान्तरे तत्पर्यवसानमाकलय्य शङ्कते *' नन्वित्यादिना । अत्र-.
कल्पादौ भूतसूक्ष्मप्रभृतिभिरुदितं वर्म कल्पान्तनाश्यं प्रत्येक प्राणिभेदे नियतमनियतस्थूलदेहानुयायि ।
लिङ्गाख्यं भस्त्रिकान्तःपरुवकवदवस्थायि सांख्यैः प्रगीतं इत्याधिकरणसारावळीसूक्तिरनुसन्धया ।