SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः ___125 सर्वार्थसिद्धिः विभक्तस्याविभक्तस्य वा तेष्वनुगतत्वादृष्टेः 'श्यदप्येकरूपान्वितत्वात् एकोपादानत्वमिच्छन्ति । तदपि स्वपरमतनि आनन्ददायिनी विभक्तस्य-कार्यावस्थस्य । अविभक्तस्य- कारणावस्थस्य । तस्याभेदेन तदात्मकतया तद्वत्तित्वासिद्धेरिति भावः । ननु समन्वयादित्यस्य एकरूपान्वितत्वादित्यर्थस्य च साध्यमेकोपादानकत्वमिति च कस्य चिन्मतमनूद्य दूषयति---यदपीत्यादिना । स्वपरमतनिधूतंस्वपरमतानुसारेण घटादिषु व्याप्तिशून्यमित्यर्थः । किं च एकरूपान्वितत्वं नाम सर्वथास्व(सर्वसारूप्योरूपैक्यं विवक्षितं उत यत्किञ्चि भावप्रकाशः स्थार्थिकः ष्यञ् इति तद्विवरणेऽपि । अवश्यं चैकोपादानत्वं साङ्खस्साधनीयं अन्यथा अनुमानेनानेकपरमाणूपादानकतां कार्यजातस्य साधयतो वैशोषिकादेस्स्वस्य वैलक्षण्यमेव न स्यात् । न च शब्दस्पर्शविहीनं तद्पादिभिरसंयुतम् । त्रिगुणं तज्जगद्योनि . . . . .॥ इति विष्णुपुराणोक्तं रूपादिराहित्येन वैलक्षण्यं वंशीधरेणोक्तमिति न दोष इति वाच्यम् । अनुमानेन साधनावसरे आगमोदाहरणस्यानवसरग्रस्तत्वात् उपादानस्यैकत्वे लाघवमेव विपक्षे बाधकस्तर्कः । समन्वयादिति हेतौ च समित्येकीकारे । एतत्तात्पर्यकमेव 'भिन्नानां समानरूपता समन्वयः' इति तत्वकौमुदीवाक्यमित्यभिप्रयन् तन्मत मुपन्यस्यति-1* यदप्याहुरिति ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy