SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सर त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरास 109 सर्वार्थसिद्धिः साध्ये सिद्धसाधनात् । सर्वगुणसजातीयत्वसाधने कार्यकारणयोरविशेषप्रसङ्गात्, * मृत्सुवर्णादिवत् कार्यविशेषव्यवस्था पककारणस्वभावसाजात्यविवक्षायां गोमयमाक्षिकाद्यारब्ध आनन्ददायिनी वे(मि)ति विकल्प्याद्ये दोषः काकाक्षिन्यायेनावर्तनीय इति मत्वा द्वितीये दोषमाह—सर्वगुणेति । यथा मृद उत्पन्नो घटो मृदात्मकः स्वर्णादुत्पन्नः कटकः स्वर्णात्मकः तद्वदित्यर्थः । तृतीये दोषमाहकार्यविशेषेति । महदादि कार्य कार्यविशेषधर्मव्यवस्थापककारणगुणसजातीयगुणवत् कार्यत्वात् इति साधने वृश्चिकमाक्षिकादौ व्यभिचारीति भावः । 'न विलक्षणत्वादस्य तथात्वं च शब्दात्' इति भावप्रकाशः वैलक्षण्यमिति व्यञ्जयन्नाह-'*मृत्सुवर्णादिवदित्यादिना । यथोक्तं वाचस्पतिना — भिन्नानां समानरूपता समन्वयः । सुखदुःखमोहसमन्विता हि बुध्यादयोऽध्यवसायलक्षणाः प्रतीयन्ते । यानि यद्रूपसमनुगतानि तानि तस्त्वभावाव्यक्तकारणकानि ; यथा मृद्धेमपिण्डसमनुगता घटमकुटादयो मृद्धेमपिण्डाव्यक्तकारणका इति' । अत्रयद्रूपसमनुगतानि-यत्स्वभावात्मकानीति व्याचख्यौ वंशीधरः। अत्र सर्वार्थसिद्धौ काविशेषव्यवस्थापकेत्यनेन मृद्धेमपिण्डेत्यादिवाचस्पतिवाक्ये मृत्स्वभावान्वयस्य घटादिकार्यविशेषनियामकत्वमभिप्रेतमिति व्यञ्जितं । एवं कारणगुणात्मकत्वादिति कारिकाविवरणे — महदादिलक्षणेनापि कार्येण सुखदुःखमोहरूपेण स्वकारणगतसुखदुःखमोहात्मना भवितव्यं' इत्यत्रापीति बोध्यम् ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy