SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 18 सव्याख्यसर्वार्थसिद्धसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः कथं निषेधः? योग्यानुपलब्धेरिति चेन; तदुपलब्ध्यनुपलब्ध्योरपि विरोधाभावात्। किंच अनुपलब्धिः अभावोपस्थापनेन भावं विरुन्ध्यात् तदा कथं तच्छ्न्ये तस्य वृत्तिः? न द्वितीयः । आत्माश्रयापातात् * विशिष्टं विशेषणविशेष्यतत्संबन्धातिरिक्तं आनन्ददायिनी - ननु तत्राप्यनुपलब्धया निश्चयोऽस्त्विति शङ्कते ---योग्यानुपलब्धेरिति । अनुपलब्धिर्न तावत्स्वरूपाभावविषया; अपितूपलब्धयभावरूपतया उपलम्भरूपप्रमाणाभावे प्रमेयाभाव इति व्याप्तया वा प्रत्यक्षसहकारेण वा। उभयथाऽपि नानुपलब्धिमात्रमभावनिश्चयहेतुः घटवति घटानुपलब्धिमति व्यभिचारात् । किञ्च तयाऽभावनिश्चयोऽस्तु तावतापि रूपज्ञानं रसवत्त्वमिव कथं भावं निरुन्ध्यात् विरोधाभावात् इत्याह---- न तदुपलब्ययनुपलब्धयोरिति । ननु अनुपलब्धिरभावमुपस्थाप्य सत्त्वविरोधी न भविष्यतीत्यत्राह-किञ्चेति । तथा सति भावस्याभाववि भावप्रकाशः त्युक्तं । तत्र प्रथमपक्षवादिन इत्थमाहुः-विशिष्टं विशेषणविशेष्यतत्सम्बन्धातिरिक्तं। समूहालम्बनाद्विशिष्टज्ञानस्य समूहालम्बनजन्यव्यवहाराद्विशिष्टव्यवहारस्य च भेदात्। एकः पुरुष इत्यादिप्रतीतिविलक्षणादेको दण्डीति प्रत्ययात् प्रत्यकाभावाद्विशिष्टामावस्यापि भेदाच्च । विशेषणसन्निधानेन विशेष्यं विशेष्यसनिधानेन विशेषणं विशेषणविशेष्योभयं वा विशिष्टोपादानं । विशिष्टप्रत्येकयोश्च भेदाभेद इति । तन्मतेनात्र ममाधिर्न सम्भवतीत्याह--- *विशिष्टमित्यादि ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy