SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्त्वमुक्ताकलापः मतिमथने स्वान्यनिर्वाहकत्वं सर्वार्थसिद्धिः धर्मत्वादिधर्मास्स्वीकार्याः। अन्यथा अनुमानासिद्धौ क्षणभङ्गादिसाधनायोगात् । अतिमथने-'* अत्यन्तचर्चायाम् । श्यद्वा स्फुटमतिमथने -विशदबुद्धया सावधानं विमर्शे सतीत्यर्थः । आनन्ददायिनी अन्यथेति-पक्षधर्मत्वादीनां कल्पितत्वेऽनुमानस्याभासत्वात् क्षणभङ्गादिसाधनमपि न म्यादित्यर्थः । अत्यन्तचर्चायामिति । अयं भावः --- धर्मधर्मिभावमपलपतः को भावः ? किमनुभव एव नास्तीति ; उत सत्यपि तस्मिन् अनवस्थादुम्स्थतया न सद्विषयत्वमिति । नाद्यः ; वामात्रेण प्रतीतिमात्रापह्नवप्रसङ्गात् । न द्वितीयः ; स्वपरनिर्वाहकत्वेऽनवस्थाया एवाभावात् इति । तर्हि प्रथमत एव स्वपरनिर्वाहोऽस्तु किं धर्ममात्रेणापीति शङ्कां परिहर्तुं ‘म्फुटमतिमथने' इत्येकनिर्वाहप्रमाणपरतया योजयति-यद्वेति । स्फुटा चासौ मतिश्चेति स्फुटमतिः । मतिरेव वस्तुसद्भावे भवति शरणं । स्वान्यनिर्वाहकतया केषाश्चिदेव भावप्रकाशः रीत्या न्याय्यत्वादिति भावेनाह-'* अतिचर्चायामिति । गौरित्यादौ गोत्वादेर्धर्मिणा धर्मवत्त्वस्य स्फुटताया उक्तरीत्या असम्भवमभिप्रेत्य स्फुटमतिमथने इत्येकमेव पदमित्यभिप्रेत्याह-2* यद्वेति । * विमर्श सतीति । विमर्शो विचारः । स च उक्तरीत्या बोध्यः ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy