SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 64 सव्याख्यसर्वाथीसद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः इति । अन्येऽपि 'ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुः' इति। सत्यं ; काल्पनिकहेतुसाध्यधर्मद्वारा अनुमानप्रवृत्तिः, पारम्पर्येण तु स्वलक्षणविश्रान्त्या भाक्तमनुमानप्रामाण्यामिति हि * बौद्धानां रहस्यम्। 2 * तत्वगत्या चतुर्विधानामाप तेषां धर्मधर्मिभावः क्षेप्यः। आनन्ददायिनी विद्यमानत्वादित्यर्थः । ग्राह्यधर्म इत्यादि--ग्राह्यस्य इन्द्रियग्राह्यस्य पक्षस्य धर्मस्तदंशेन साध्येन व्याप्तो हेतुः इति न्यायकौमुदीकारादय आहुरित्यर्थः । नात्रार्थतथात्वलक्षणं प्रामाण्यमङ्गीक्रियते; तस्य निर्विकल्पकमात्रपर्यवसायित्वात् अपितु अविसंवादित्वलक्षणं ; तच्च धर्मधर्मिभावकल्पनयाऽप्युपपद्यते इति परिहरति सत्यमिति---अस्मिन् श्लोके न वैभाषिक एवं पूर्वपक्षी ; अपि तु चत्वारोऽपीत्याहचतुर्विधानामिति । नन्वयं विकल्पो विषयसिद्धयसिद्धिपराहत इत्याह भावप्रकाश 1* बौद्धानां रहस्यमिति---न्यायबिन्दौ निर्विकल्पकं प्रस्तुत्य 'तस्य विषयः स्वलक्षणं । तदेव परमार्थसत् । अन्यत्सामान्यलक्षणम् । सोऽनुमानस्य विषयः' इत्याद्युक्तेरिति भावः । एतच्च बुद्धिसरे (३३) सविकल्पकदृष्टान्तेन आचार्यरेव सम्यगुपादायिष्यते । ____ 2* तत्वगत्येत्यादि---सौत्रान्तिकयोगाचारमाध्यामकानां प्रत्यक्षार्थभा बाघार्थभङ्ग सर्वशून्यत्ववादैः वैभाषिकवलक्षण्यसत्त्वेऽपि परमार्थसतोधर्मर्धर्मिणोईयोः कैरप्यनङ्गीकारादिति भावः ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy