SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः नैकत्वेऽप्यक्षभेदागिदुरमिव मिथस्संश्रयादि ___ सर्वार्थसिद्धिः नियतसामग्रीबोध्यत्वेन ग्रहणाग्रहणयोरुपपत्तेरिति । नन्वस्तु पतिसंधानबलात् द्वीन्द्रियग्राह्यं किंचित ; तत्तु रूपरसाद्यात्मकमिति वा तदाश्रय इति वा न मृष्यामहे; तेषामेवाभावात् । एकस्मिन्नेव ग्राहकभेदात्तत्तद्धर्मधीः; यथा-मणिकृपाणदपंणादिव्यञ्जकभेदान्मुखादेरणुत्वपृथुत्वमलिनत्वविमलत्वादिधी: सव्यदक्षिणविपर्यासश्चेति । तमिमं पक्षं प्रतिक्षिपति नैकत्वेऽप्यक्षभेदाद्भिदुरमिवेति इह तावत् सर्वत्रासिद्धस्य कल्पनानुपपत्तिरुक्ता । बाधकान्तरमाह-मिथ इति चक्षुरादिग्राहकवैजात्यं आनन्ददायिनी तत्राप्युपकारशक्तिकल्पनमुखेन बहुविप्लवप्रसङ्गात् । तथाच धर्माणां भेदे युगपद्गहणनियमोऽपि नास्ति; ग्राहकाणां परस्परव्याभिचारित्वात् । तस्मात् धर्मिणो ग्रहणेऽप्यनिश्चितांशसंभवात् ' को भेदस्स्यादनिश्चितः' इत्यनुपपन्नं ; रूपस्य ग्रहणेऽपि रसस्याग्रहणोपपत्तेः । रूपादितया विकल्प्यमानस्येत्युक्तं पक्षं दूषयितुमनुभाषते नन्वस्तु प्रतिसन्धानबलादिति । एकस्मिन् वस्तुनि रूपरसाद्याकारबुद्धिः कथमित्यत्राह ----एकस्मिन्नेवोत । ननु ग्राहकनिष्ठानां धर्माणां ग्राह्ये ग्रहणमस्तु तत्राविद्यमानानां रूपादीनां कथं ग्रहणमित्यत्राह--सव्यदक्षिणविपर्यासश्चेति । इह तावदिति । कचिदप्यसिद्धस्यारोपासंभवात् ग्राहकमेदान्न भेदधीरित्यर्थः । किञ्च इन्द्रियभेदः प्रमितो ग्राह्येऽध्यस्यते उत सत्तयेति विकल्प्याचं दूषयतिचक्षुरादीति । । - -
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy