SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [है० १.३.३.] प्रथमः सर्गः। रत्रिकयइच्छया निष्पापं निरवयं वस्तु चेष्टयन् व्यवहरन्सन्धर्मार्थाभ्यां धर्मधनाभ्यां युतो निरीक्ष्यते । भवतो हि निष्पापव्यापारिणां धर्मार्थाविति । पाणिन्यादयो हि केचित् स्वरव्यचनयोरन्हल्संज्ञा कुर्वन्ति । ततो यथानच् स्वररहितो हल व्यञ्चनम् अच्हल्भ्यां स्वरव्यखनाभ्यां युतो निरीक्ष्यते । अस्वरं हि व्यञ्जनं पुरःस्थिताभ्यां स्वरव्यसनाभ्यां युतं स्यात् ।। वाग्वादिनः विप्वहिताः । अनज्मद अज्हल्भ्याम्। द्विदृति तुरापाडियम् । तावदिमांशुः सापद्हेमाद्रिः । ककुम्भासैः ककुव्हस्ति । इत्यत्र "ततो हश्चनुर्य." [३] इति वा चतुर्थः ॥ तत इति किम् । चेप्टयन् हित । वाक्छ्रान्वीक्ष्य सोप्यस्मिन्वाक्पतिः स्यादवाकिराः । राज्ञां यशोभिस्तच्छेतं यच्श्वेतं न कदाप्यभूत् ॥ ४३ ॥ ४३. अस्मिन्पुरे वाक्छूरान् वाचा सुभटान्महावादिनो वीक्ष्य स वाक्पतित्वेन सर्वत्र प्रसिद्धो वाक्पतिरैपि बृहस्पतिरप्यवाकिग लज्जया नीचैर्मूर्धा स्यात् । संभावनेत्र सप्तमी । अत्रत्यविदुपां वाक्पतेरप्यतिमात्रं वाग्मित्वादिदमहं संभावयामीत्यर्थः । तथा यद्वस्तु कजलव्योमादि सदा कृष्णत्वेन कदापि श्वेतं शुभ्रं नाभूत्तदप्यत्र राज्ञां वनरा. जादीनां यशोभिरतिवाहुल्याच श्वेतमभूत् । कविरूद्ध्या हि यशः श्वेतं वर्ण्यते ॥ वषटौषट् शान्तिकृतां वाक् थ्योतति सुधामिह । अप्छोयिदेवो नापायी पश्यञ् श्रियमिहागताम् ॥ ४४ ॥ ४४. इह पुरे शान्तिकृतां नगरादिक्षुद्रोपद्रवमार्याद्युपशान्तिविधा१ एफ छायी दे. १वी यो के. २ वी सी अल्'. ३ सी डी रप्य. ४ एफ दि महार. ५ सी डी 'न्तिध्यायि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy