SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ [है०४.३.५६.] नवमः सर्गः। ७३३ वामाचामं सुधाचामकानां मेने चमं नृपः । पुलकोद्वामको दृष्ट्या तस्या लावण्यचामतः ॥१३६ ॥ १३६. पुलकोद्वामको रोमाञ्चोदवान्नृपः कर्णः सुधाचामकानाममृतास्वादकानां देवाना चमं चम्यते चमः कर्मणि घम् । भक्ष्यं सुधां वामाचामं प्रतिकूलजेमनं मेने । कस्मात् । तस्या नायिकाया दृष्ट्या दर्शनेन कृत्वा लावण्यचामतः सौन्दर्यास्वादाद्धेतो. । तल्लावण्यमास्वाद्यामृतमवाहीलयदित्यर्थः ।। प्रजनाः । जन्य । अजनि । बध । वध्या. । अवधि । इत्यत्र “न जनवधः" [५४ ] इति न, वृद्धिः ॥ शेम । अशर्मक । अशमि । इत्यत्र "मोकमि" [५५] इत्यादिना न वृद्धिः॥ कम्यादिवर्जनं किम् । कामेन । कार्मुकः। अकामि । व्यायाम । आयामक । आयामि । आरामे । अविरामकः । अरामि । निर्नाम । उन्नामिका । अनामि । आगामुकाँ । अगामि । वाम । उद्वामकः । अवामि । आचामम् । आचामकानाम् । आचामि ॥ आचम इति किम् । चमम् ॥ अन्ये तु सामान्येन निपेधमिच्छन्ति । चामंतः॥ यस्यां विश्रामकं चक्षुर्मनो विश्रमकं च मे । सा श्रीविश्रमभूः केयं कामविश्राममन्दिरम् ॥ १३७ ॥ १ एनपके. सु. २ ए भक्ष्य सु° ३ ई ततस्या. ४ ए °वण्याचा..५ ई तमिवा. ६ ए °लअदि. ७ ए सी जना । ज. ८ ई अवधि. ९ए न द्वि:. १० डी शम । अ. ११ ए मका । म १२ ई त्यत्रामो'. १३ ए "द्धि ॥ काम्या १४ सी मुक । अ. १५ डी म । अया'. १६ डी मि । . १७ बी का । आगा. १८ ए सी डी ईमक । अ. १९ सी डी माचाम. २० सीमत 1.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy