SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ [है० ४.३.३९.] नवमः सर्गः। ७२५ यथा समगतोमेशे श्रीः कृष्णे समगस्त च । संगसीष्ट त्वयि तथा सा शुभैः संगसीष्ट च ॥ १२० ।। १२०. यथेशे शंभावुमा गौरी समगत संबद्धाभूद्यथा कृष्णे श्रीः समगंस्त च तथा सा कन्या त्वयि संगंसीष्ट संबद्धीभूयात्तथा शुभैः पुत्रलाभादिभिः संगसीष्ट च ।। समगत समगस्त । संगसीष्ट संगसीष्ट । इत्यत्र "गमो वा [३७] इति वा किद्वत् ॥ मा ते व्याहत विश्नोत्रेत्युक्त्वा चित्रकृति स्थिते । रागमन्तर्गतं राज्ञो रोमोहम उदायत ॥ १२१ ॥ १२१. राज्ञः कर्णस्य रोमोद्गमो रोमाञ्चोन्तर्गतं रागमुदायतासूचयत् । दोषाविष्करणं चात्र धैर्यगाम्भीर्यगुणान्वितस्य राज्ञो रागदोपस्य प्रकटनात् । क सति । चित्रकृति स्थिते । किंकृत्वा । उक्त्वा । किमित्याह । हे राजन्नत्र मघणल्लाविषये ते तत्र विनोन्तरायो मा व्याहत मा व्याघातं कार्षीदिति ॥ व्याहत । इत्पन्न "हनः सिच्" [३८] इति सिंच किद्वत् ॥ उदायत । इत्यत्र "यमः सूचने" [३९] इति सिच् किद्वत् ॥ उपायत नृपो रत्नान्युपायंस्त च काञ्चनम् । अदितासै गृहीत्वासौ प्रास्थिताधित संमदम् ॥ १२२॥ १ डी म् । आदि. १ वी मो विति. २ ए कृत्वेक्त्वा. सी डी कृत्वेत्युक्त्वा. ३ वी सी डीई ये त.' ४ ई सिच कि. ५ वी सी डी त । अत्र.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy