SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ [है० ४.३.३.] नवमः सर्गः। वेव्यते दीध्यते लक्ष्म्या भवानग्रेधुनानया। यदि वेवीत दीधीतेत्यालेख्यपटमार्पयत् ॥ ९४ ॥ ९४. चित्रकृदालेख्यपट चित्रपटमार्पयद्राज्ञे ददौ । कथम् । इत्येवमुक्तिदानप्रकारेण । इत्युक्त्वेत्यर्थस्तमेवाह । हे नृपाप्रे पूर्व भवांस्त्वं लक्ष्म्या राज्यश्रिया का वेव्यते धीरललितनायकत्वात्काम्यते । तथा दीध्यते । अन्तर्भूतणिगर्थत्वाद् रम्यते च । अधुना सांप्रतं पुनरनयालेख्यपटस्थकन्यकया सहितां लक्ष्मी यदि वेवीत दीधीत च । इच्छा मे यदि कामयेत रमयेच्चेत्यर्थः । असंजातपूर्वसपत्नीका लक्ष्मीरधुनानया ससपत्नीका यदि भवेत्तदा ममात्यभिप्रेतं स्यादिति भावः । अन "कामोकावकञ्चिति"[५.४. २६ ] इति कामोको गम्यमा नायां सर्वविभक्त्यपादा सप्तमी। यदि च भवानम इति पाठस्थाने पूर्वमेष इति पाठः स्यात्तदा सर्वापीयमुक्तिः कवेः स्यात्ततश्च पूर्वमेष कर्णों लक्ष्म्या वेव्यते दीध्यते चाधुना त्वेषोनया सहितो लक्ष्मी यदीति यथार्थे । यथा वेवीत दीधीत च । वर्तमानार्थेपि सप्तमी दृश्यते । ततश्च यथाभिलपति क्रीडयति चेति हेतोरालेख्यपटमार्पयदिति सरल एवान्वयः स्यात् । विशिष्टाम्नायविद्भिरन्यथा वैतदर्थः स्वयं व्याख्येयः ॥ भतनोत् । अधूनोत् । इत्यन्न "उश्नोः" [२] इति गुणः ॥ अविभयुः । हेपयन् । इत्यत्र "पुस्पौ" [३] इति गुणः ॥ १एई त देधी. १ सी डी मुक्तदा. २ ए सी भवास्त्व ल'. ३ ए वेध्येते. ४ ए ई देवी. ५ बी येच्च र. सी डी येत् र?. ६ ए येचेत्य'. ७ वी सी डी वकिचि. ए वकिन्विति. ८ वी वादः स. ९ बी सी डी हितो . १० एदी य. ११ ए ई त देषी . १२ एर्तकमा . १३ वी ई पते की.सीडी पयते की. १४ सी डी यवदि. १५ बी ई या चैत'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy