SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ है० ४.२ ७५ ] नवमः सर्गः । ६८९ अन्यून एभ्यः पूर्वेभ्यो भीमो जयति संप्रति । यत्र न क्षितकः कोपि क्षीणकः केवलं कलिः ॥ ४९ ॥ ४९. संप्रत्येभ्यः पूर्वेभ्य पूर्वजेभ्य. पुरूरवआदिभ्योन्यूनोहीनो भीमो जयति । यत्र भीमे सति सर्वस्य सुखितत्वान्न कोपि क्षितकः परपराभवादिना दीनः केवलं परं कलि: कलिकालः क्षीणको धर्मोदयाद्दीनः ।। मैत्री हि सहजा सद्भिः सतामित्यावयोरिमाम् । अन्यथा ख्यापयन्कोस्तु क्षितायुः क्षीणसंततिः ॥ ५० ॥ ५०. हि स्फुटं सतां साधूनां सद्धि सह सहजा स्वाभाविकी मैत्रीति हेतोरावयोः सतोरिमां मैत्रीमन्यथामैत्रीप्रकारेण ख्यापर्यंन्कः क्षीणायुः क्षीणतसंततिः क्षीणसन्तानश्चास्तु । अकृत्रिममैत्रीपवित्रयोरावयोरमैत्री मुमपुरेव वक्तीत्यर्थः ॥ क्षीणं यद्वा स्वयं तेन किं हि तस्य क्षितेन नः । त्वं श्लाघाहीण नः पुण्यैर्ऋतं स्वाम्यनृणागतः ॥ ५१ ॥ ५१. यद्वा तेनावयोमैत्रीमन्यथा ख्यापयता नरेण स्वयं क्षीणं महालीकोक्तिरूपतीत्रपापपातादात्मनैव क्षयं गतम् । ततश्च हि स्फुटं तस्य स्वय क्षीणस्य हितेन क्षयेण नोस्माकं कि न किंचित्तायस्य मृतमारणतुल्यत्वात्तस्मीत्तद्वार्तामपि वयं न कुर्म इत्यर्थः । अथात्मानुगतमेव तात्पर्यमाह । हे श्लाघाह्रीण महापुरुपत्वात्प्रशंसया लजित तथा १ बी सहजामि . ए सत्यमि' ० ए वी ई ये ऋत. _१ बी सी डी भ्य. पु. २ एतकोप. ३ ए दीनो के. ४ ए 'लि का. सी लिकालक्षी'. ५ वी हि स्फट. ६ सी डी हजा. ७ ई त्रीहि हे. ८ए यक्षः क्षी. ९ ए बी ई यु क्षितस. १० सी मूर्खरै . डी मूर्खर. ११ ए यं तेन हितस्य. १२ सीडी सादा.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy