SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ [है० १ २ ३४.] प्रथमः सर्गः । २५ मणीव महणौ चक्रदंपतीव युतौ स्तनौ । विजेतुं रोदसीवात्र स्त्रीणां भातः स्मरायुधे ॥ २९ ॥ २९. अत्र पुरे स्त्रीणां स्तनौ भात: । कीदृशौ । मणीव रत्ने इव मसृणो कठिनकोमलौ । तथा चक्रदंपतीव । जाया च पतिश्च दंपती चक्रश्च चक्री च चक्रौ चकौ च तो दंपती च चक्रदंपती चक्रवाकमिथुनम् । तौ यथा प्रेमातिरेकादन्योन्यं युतौ भवतस्तथा युतीवतिस्थूलत्वादन्योन्यं मिलितौ । उत्प्रेक्ष्येते । रोदसी द्यावापृथिव्यौ जेतुं पगभवितुं स्मगयुधे इव कामशस्त्रद्वयमिव रोदस्योरपि द्वयोर्जेतव्यत्वात् ।। __ हारिणी अपि । अमू३ भनी । उज्न्येते इह । इत्यत्र "ईदूदेद्विवचनम्" [३४] इत्यसधिः ॥ एषां तानामितावपि संधिर्न स्यात् । अग्नी३इति ॥ केचित्तु मणीवोष्ट्रस्य लम्बेसे प्रियो वरसतरौ ममेति प्रयोगदर्शनान्मणी इव मणीअत्यादावसंधिप्रतिपेध वर्णयन्ति तदयुक्तम् । वाशब्देनोपमार्थेन सिद्धत्वात् ॥ अन्ये तु यथादर्शनं संधिमसधि घेच्छन्ति । मणीव । दंपतीव । रोदसी । मणी इव ॥ अमी अमुमुईचोस्य नखाः कण्ठे इ ईक्षिताः । अ एहि त्वमु उत्तिष्ठ यद्या एवं नु मन्यसे ॥ ३०॥ ऊ ऊहस्व त्वमे अस्मिन्नी ईदृशि रतिः कथम् । तदो अलमनेनेति सखीमाहात्र मानिनी ॥ ३१ ॥ ३०, ३१. अत्र पुरे किल काचिन्नायिका पत्यौ सपत्नीनखक्षता १ सी अत ए. १ डी 'नमेतो. २ एफ ताविति'. ३ सी डी स्प्रेक्षेते. एफ प्रेक्षते. ४ सी डी तु स्म'. ५ की ति प्रायो. ६ ए सीव ।।.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy