________________
६७२
व्याश्रयमहाकाव्ये [ भीमराजः] श्वायुतमश्वानां दशसहस्राणि दूतेन सहेह प्रत्यक्षे देश आगतिमागमनमववर्तचक्रे । कीदृगित्याह । एपच्छत्रैर्महासामन्तादिमू|परिस्थि तैरातपत्रैः कृत्वा व्योमाविभ्रजदशोभयन् । तथैप कुन्तकान्तिभिः कृत्वा व्योमावीभसदुदीपयन्। तथैप किरीटोमहासामन्तशिरःस्थमुकुटांशुभिः कृत्वा व्योमावभासन् । तथैष हेपारवैः कृत्वा व्योमाबीभषत्प्रतिशब्दितैरशब्दाययत् । तथैप खुरानैः कृत्वा क्ष्मामवभापच्छन्दायमानां प्रायुशादिदीपत्समतापयदपीपिडत्पीडितवांश्च । तथैष भारेण का क्रोडदंष्ट्रामपि न केवलं मामादिवराहदाढामप्यपिपीडददीदिपञ्च । तथा यद्यस्माद्धेतोरेष रजो धूलिमुदमीमिलदुच्छालितवांस्तेन हेतुना तमोजिजीवदुल्लासितवानित्यर्थः । तथैप तान्यस्त्राण्युदमिमीलदप्रकटयद्यैः कृत्वैष उद्योतमजीजिवत् । तथैप तान्दुन्दुभीन्पटहानचकाणवादयद्यैः कृत्वैष निकुञ्जानि गिरिगह्वराण्यचीकणत्प्रतिशब्दैः शब्दायितवान् । तथैष ता ढका विजयभम्मा अरराणचावादयश्च यकाभिः कृत्वा द्यामरीरणत् । तथैप काहला अववाणच्चावादयत् । एतत्स्वरस्यात्युदात्तत्वादुत्प्रेक्ष्यते । एष निजोत्कर्ष न्वात्मीयोत्कृष्टतामिवाबीभणदभाणयत्प्रस्तावात्काहला एव । “गतिबोध" [२२.५] इत्यादिना णिकर्तुः कर्मता । काहलापाादित्यर्थः । तथैष उच्चैः शङ्खानवीवणच । एतत्स्वरस्य च मङ्गल्यत्वादुत्प्रेक्ष्यते । मङ्गलं न्ववाणगाणितवान् । प्रस्तावाच्छवानेव । तथैप क्वापि शत्रुपु क्षोभं भयेनाकुलतामशश्राणदात् । तथैष क्वापि नागरिकेपु ऋद्धिविशेषेण विस्मयमाश्च
१ सी डी हश्राणि. २ ए पस्थत्रम'. ३ ए दिमहामू. ४ बी सी डी 'रिधृते. ५ ए स्थितेरा . ६ ए वीसस. ७ बी शिरस्थ. ८ ए पारावः कृ. ९ ए मानव. १० वी ई युक्तादि. ११ ए ल म्यानादि. १२ ए यी डी उद्योत. १३ ए जिपस्तथै'. १४ ई ढकावि०. १५ ए विषय. १६ ए गच्च का१७ बी सी डी कृत्वैप घा': १८ ए णत्वाचा. १९ई णिकर्तुः. २० ए पार्धदि° २१ यी थैव उ २२ डी 'ल त्वन. २३ ए °णप्राणि'.